________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्तिः [२], भाष्यं [-] वि० भा० गाथा [१८२, १८४,२९१], मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
आह च भाष्यकृत् -"भूयाभूय विसेसादाणच्चायाभिमुहमीहा ।' (वि. १८४) अन्ये तु संशयमात्रमी हामुपवर्णयन्ति, तदसम्यक्, संशयो ह्यज्ञानं, मतिज्ञानांशश्च ईहा, तत्कथमेषा संशयमात्रं भवितुमर्हति ? उक्तं च- " ईहा संसयमेत्तं केई न तयं तओ जमन्नाणं । मईनाणंसो चेहा कहमन्नाणं तई जुत्तं १ || २ || ” (वि. १८२) तथा तस्यैव अवगृहीतस्य ईहितस्य चार्थस्य निर्णयरूपोऽध्यवसायोऽवायः, शाङ्ख एवायं शार्ङ्ग एवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोऽवाय इति भावः चशब्दः पृथक् २अवग्रहादिस्वरूप स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीति तदर्थख्यापनार्थ इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा अविच्युतिर्वासना स्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्त्तप्रमाणा, ततस्तथा आहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसङ्ख्येयं वा कालं यावद् भवति, सङ्ख्येयवर्षायुषां सङ्ख्येयं कालमसङ्ख्ये वर्षायुषामसंकोयं कालमिति भावार्थः, ततः कालान्तरे कुतश्चित्तादृशार्थ दर्शनादिकात् कारणात् संस्कारस्य प्रवोधे यद् ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपा सा स्मृतिः, उक्तं च-" तदनन्तरं तदत्थाविच्चत्रणं जो उ वासणा जोगो । कालन्तरेण जो पुणरणुसरणं धारणा साउ || १|| (वि. २९१ ) एताश्वाविच्युतिवासनास्मृतयो घरणलक्षणसामान्यान्वर्थयोगाद्धारण/शब्दवाच्याः, एवंशब्दः क्रमप्रदर्शनार्यः, आर्पत्वाच्च मकारलोपः, एवं अनेनैव क्रमेण, तथाहि नानवगृहीतमीह्यते न चानीहितमवगम्यते न चानवगतं धार्यत इति, चत्वारि आभिनिवोधिकज्ञानस्य भिद्यन्त इति भेदाः त्रिकल्पा अंशा इत्यनर्थान्तरं त एव वस्तूनि भेदवस्तूनि वास्तवा भेदा इति भावः, समासेन सङ्क्षेपेण, नतु विस्तरतः, विस्तरतोऽष्टाविंशत्यादिभेद्भा वात्, अथवा काक्का नीयते एवं भवन्ति चत्वार्याभिनि बोधिकज्ञानस्य भेदवस्तूनि समासेन, न तु विस्तरत इति ।
For P&Personal Use Only
~60~
anelibrary.org