________________
आगम (४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३६], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
म्याच, तत्र ये नवीना ये जीर्णा अभाविता येच कुमावचनिकादिमाविता अपि कम्या वे च संविघ्नभाविता अवाम्याते सर्वेऽपि । योग्या:, शेषा अयोग्याः । अथवाऽन्यथा कुटदृष्टान्तभाक्ना-इह चत्वारः कुटास्तद्यथा-छिद्रकुटः खण्डकुटः कण्ठहीनकुटा सम्पूर्णकुटश्च, तत्र यस्य अधो बुने छिद्रं स छिद्रकुटः, यस्य पुनरोष्टपरिमण्डलाभावः स कण्ठहीनकुटः, यस्ख पुनरेकपाचे खण्डेन हीनता स खण्डकुटः, यः पुनः सर्वावयवसंपूर्णः स संपूर्णकुटा, एवं शिष्या अपि चत्वारो वेदितव्याः, तत्र यो| व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थमवबुध्यते व्याख्यानादुत्थितश्च न किमपि सारति स छिद्रकुटसमानो, यथा हि छिद्र कुटो यावत्तदवस्थ एव गाढमवनितलसंलग्नोऽवतिष्ठते तावन्न किमपि जलं ततः श्रवति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि
यावदाचार्यः पूर्वापरानुसन्धानेन सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेव्याख्यानमण्डल्या. तर्हि स्वयं पूर्वापरानुसन्धा-| दिनविकलत्वान्न किमपि अनुस्मरति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽर्द्धमात्र विभाग चतुष्कं वा हीन वा सूत्रार्थमवधार-1.
यति तथाऽवधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिद्नं सूत्रार्थमबघारयति पश्चादपि च तथैव स्मृतिपथमवतारयतिर सकण्ठहीनकुटसमानः, यस्तु आचार्योक्तं सकलमपि सूत्रार्थ यथावदवधारयति पश्चादपि च तथैव संपूर्ण स्मरति स सम्पूर्णकुटसमाना,अत्र छिद्रकुटसमान एकान्तेनायोग्यः,शेषा यथोत्तरं प्रधानाःप्रधानतराः प्रधानतमाः।सम्पति चालनीष्टष्टान्तभावना, चालनी लोकासिद्धायया कणिक्कादि चाल्यते, तत्र यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेव गच्छति, न पुनः किय-12
म्तमपि कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपैति स चालणीसमानः, तथा दामुद्गशैलच्छिद्रकुटचालणीसभानशियमेदप्रदर्शनार्थमुक्कं भाष्यकृता-"सेलेयछिदुचालिणि मिहोकहा सोज रट्ठियाणं तु ।
AA%A
an Education in
For Prath & Personal un any
~300