________________
आगम
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -, नियुक्ति: -1, भाष्यं -1, विभा गाथा [२५,२९], मूलं /-/गाथा-]
(४०)
स्थापनाइव्यलक्षणं
प्रत सूत्रांक
उपोद्धाते चानुयोगदारे-"नाम आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिआवा"भाष्यकारोऽप्याह-"ज पुण तयत्वसुन्न तय-
भिप्पारण तारिसागारं । कीरइ व निरागारं इत्तरमियरं व साठवणा॥॥"(भा. २५)। सम्प्रति द्रव्यमङ्गलभिधातव्यं, तत्र ॥६॥ INIद्रव्यमिति-द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं, 'कृद्धहुल'मिति वचनात् कर्तरि यः, द्रव्यं च तन्मङ्गलं च द्रव्यम
गलं, तल्लक्षणमिदम्-"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैःसचेतनाचेतनं कथितम् ॥१॥" अस्यायमर्थः-भूतस्य-अतीतस्य भाविनो वा-एष्यतः भावस्य-पर्यायस्य कारणं-निमित्तं यदस्मिन् लोके तत् तत्त्वज्ञैःसर्वज्ञैः तीर्थकृद्भिरितियावत् द्रव्यं कथितं, द्रवति-च्छति तांस्तान् पर्यायान् अग्रेतनान् प्राचीनांश्च मुञ्चतीति द्रव्यमिति व्युत्पत्त्यर्थानुगमात्, तच्च द्विधा-सचेतनमचेतनं च, तत्र सचेतनं अनुपयुक्तपुरुषाख्यं, अचेतनं ज्ञशरीरादीति, उकं द्रव्यलक्षणम् , अधुना प्रकृतमुपयुज्यते, द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आ-समन्तात् गम्यते वस्तुतत्त्वमनेनेत्यागमः-श्रुतज्ञानं आगममधिकृत्यागमतः, 'स्थानियपः कर्माधारें' इति कर्मणि पञ्चमी, यथा प्रासादमारुह्य प्रेक्षते इत्यर्थे प्रासादात् प्रेक्षते इत्यत्र, आगमापेक्षयेति भावार्थः, आगमस्याभावः आगमस्य एकदेशो वा आगमेन सह मिश्रणं वा नोआगमा, नोशब्दस्य त्रिष्वप्यर्थेषु वर्तमानत्वात् , नोआगममधिकृत्य नोआममतः, तत्र आगमतो मङ्गलशब्दार्थज्ञाता तत्र चानुपयुक्तः, स हि मङ्गलशब्दार्थवासितान्तःकरणतया तज्ज्ञानलब्धिसहितो नोपयुक्त इति 'अनुपयोगो द्रव्य'मिति वचनात् द्रव्यम्, आह च भाष्यकृत्-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओऽवि नोवउचोति तो दवं ॥१॥"(भा. २९) नवागमो मङ्गलशब्दार्थपरिज्ञानमागमः श्रुतज्ञानमिति पूर्वमभि
दीप अनुक्रम
ROKAR
॥६॥
JanEducation inNKA
~27~