________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
Jan Education h
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [११९- १२१ ], भाष्यं [-] वि० भा० गाथा [१३१४,१३१६, १३१७], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| सम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंवतानामन्यतमः आह च- "पडिवतीए अविरयदेसपमत्तापमत्तविरयाणं । अन्नयरो पडिवजह सुद्धज्झाणोवगयचित्तो ॥ १ ॥” (वि. १३१४) केवलं यद्यप्रमत्तसंयतः पूर्ववित् ततः शुक्लध्यानोपगतः श्रेणिमारभते, शेषस्तु धर्मध्यानोपगतः, तत्र क्षेपक श्रेणिमारोहन् स प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीनन्तर्मुहूर्त्तेन युगपत् क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य मिथ्यात्वं सहैव तेन युगपत् क्षपयति, यथा ह्यतिसम्भृतो दवानलः खल्वर्द्ध| दग्धेन्धन एवेन्धनान्तरमासाद्य उभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभपरिणामत्वादवशेषमन्यत्र प्रक्षिप्य क्षपयति, तदनन्तरं तथैव सम्यग्मिथ्यात्वं तदनन्तरमेव च सम्यक्त्वम्, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षव्यानन्तरं च मरणसम्भवतो व्युपरमते ततः कदाचिन्मिथ्यादर्शनोदयात् भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजस्य मिथ्यात्वस्याविनाशात्, क्षीणमिथ्यादर्शनस्तु न उपचिनोति, बीजाभावात् क्षीणसप्तकस्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषु मध्ये समुत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवात् यथापरिणामं सर्वगतिभाग भवति, उक्तं च--" बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरेजा। ता मिच्छत्तोदयतो चिणिज्ज भूतो न खीणंमि १ ॥ तंमि मतो जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ || २ ||" (वि. १३१६ - ७) वद्धायुः कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यलमादधाति, आह च - "बद्धाऊ परिवन्नो नियमा खीणंमि सत्तए ठाए ।" अत्राह - ननु यदि दर्शनत्रिकमपि क्षयमुपनीतं ततः किमसौ सम्य| ग्दृष्टिरुतासम्यग्दृष्टिः १, उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत्, तदसद्, अभिप्रा
For Pitate & Personal Use Only
266~
wjainslibrary.org