________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
Jan Education Inter
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ११६ ], भाष्यं [-] वि० भा० गाथा [१२८५- १२८६ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सम्परायान्तरं 'अथाख्यातम्' अथशब्दो यथार्थे आझ अभिविधौ याथातथ्येन अभिविधिना च यत् ख्यातं - कथितमकषायं चारित्रमिति तत् अथाख्यातं, उक्तं च-"अहसहो जाइत्थे आउनभिविहीएँ कहियमक्वायं । चरणमकसायमुदितं तमहक्खायं जहक्वायं ॥१॥” (वि. १२७९) यथाख्यातमिति द्वितीयं नाम, तस्यायमन्वर्थः - यथा सर्वस्मिन् जीवलोके ख्यातं - प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत् तद्यथाख्यातं तथा चाह- ख्यातं प्रसिद्धं सर्वस्मिन् जीवलोके, यत् कथंभूतमित्याह यच्चरित्वा - आसेव्य शोभनं विहितम् - अनुष्ठानं येषां ते सुविहिताः - सुसाधवो व्रजन्त्यजरामरं-न विद्यते जरा यत्र तदजरं न वियते प्राणी यत्र तदमरम्, अचूप्रत्ययो बाहुलकात्, अजरं च तदमरं च अजरामरंमोक्षलक्षणं स्थानं, इदं च द्विधा, तद्यथा-छास्थिकं कैथलिकं च तत्र छाद्मस्थिकमुपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थानके वा, केवलिकं सयोगिकेवलिभवं अयोगिकेवलिभवं च । इह सूक्ष्मसम्परायं यथाख्यातचारित्रं च उपशमक्षयलभ्यमतः कर्मोपशमक्रमप्रदर्शनार्थमाह
अण- दंस-नपुंसि-स्थीवेय-छक्कं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उसमे ॥ ११६ ॥
इह उपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये त्वविरतदेशविरतप्रमत्तसंयताप्रमत्तसंयतानामन्यतम इति, उपशम श्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयतदेशविरताविरतानामन्यतमः, उक्तं च-" उवसामग सेडीए पटुवगो अप्पमत्तविरतो उ । पज्जवसाणे सो वा होइ पमत्तो अविरतो वा ॥ १ ॥ अन्ने भणति अविरयदेसपम चापमत्तविरयाणं । अन्नयरो पडिवजह दंसणसमणम्मि उ निवट्टी ॥२॥ (वि. १२८५-६ ) स चेत्यमुपशमश्रेणिमारभते - 'अण'ति 'अणरणे' त्यादि
For Pitate & Personal Use Only
260~
www.janbrary.org