________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र -१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ११२, ११३], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
लेडल
न्ध्यप्रत्याख्यानकषायप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा सम्-ईषत्परीषदादिसम्पाते चारित्रिणमपि ज्वलयन्तीति सचलनाः क्रोधादयस्तेषामुदये न लभते चरणं चारित्रं, किं सर्वमेव १, नेत्याह- 'यथाख्यातं' यथैव तीर्थ| करगणधरैराख्यातमकषायं भवति चारित्रमिति तथैव यत् तद् यथाख्यातम्, अकषायमित्यर्थः, सकषायं तु लभते एव ॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सञ्ज्वलनाः, किन्तु शेषचारित्रदेशोपघातिनोऽपि तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात्, तथा चाह
सवेवि य अइयारा संजलणाणं तु उदयभ होंति । मूलच्छेजं पुण होइ बारसहं कसायाणं ॥ ११२ ॥ सर्वेऽपि आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अपिशब्दात् कियन्तोऽपि अतिचरणान्यविचाराः - वारित्रस्खलन| विशेषाः सम्ज्वलनानामेवोदयतो भवन्ति, तुशब्द एवकारार्थः, द्वादशानां पुनः कषायाणामुदयतो मूलच्छेद्यं भवति, | मूलेन-अष्टमस्थानवर्त्तिना प्रायश्चित्तेन छिद्यते- अपनीयते यत् दोषजातं तत् मूलच्छेद्यम्, अशेषचारित्रोच्छेदकारीति भावः, पुनः शब्दः प्रक्रान्तार्थविशेषक एव भवति द्वादशानामनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणलक्षणानां कषायाणामुदये, अथवा मूलच्छेद्यं दोषजातं यथासम्भवतो योज्यते, तद्यथा - प्रत्याख्यानावरण कषायचतुष्टयोदये सर्वविरति | रूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं दोषजातं भवति, अप्रत्याख्यानकपायचतुष्टयोदये देशविरतिचारित्रस्य, अनन्तानुबन्धिकपायचतुष्टयोदये तु सम्यक्त्वस्येति । यतश्चैवमतः
चारसविहे कसाए, खइए उबसामिए व जोगेहिं । लन्मह परिचलंभो, तस्स विसेसा इमे पंच ॥ ११३ ॥
For Pivate & Personal Use Only
Jan Education International
~ 250 ~
www.jainslibrary.org