________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-1
पोद्धा
॥ ५ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [-], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मां गालयति - अपनयति संसारादिति मङ्गलं, यदिवा मलं - पापं गालयति स्फेटयतीति मङ्गलं मा भूत् गलो - विघ्नोऽस्मा दिति वा मङ्गलं, सर्वत्र पृषोदरादित्वादिष्टरूपनिष्पत्तिः । तच्च नामादिभेदाच्चतुर्द्धा तद्यथा - नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं च तत्र यस्य कस्यचिज्जीवस्य अजीवस्य वा मङ्गलशब्दार्थरहितस्य मङ्गलमिति नाम क्रियते तन्नाममङ्गले, यत एवं तलक्षणम् - " यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १॥" अस्यायमर्थः - 'यद्वस्तुनो' जीवाजीवादेर्नाम, यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थ' इति तस्माद्- | गोपालदार कादन्यश्चासावर्थश्च अन्यार्थः तस्मिन् स्थितं परमार्थतस्त्रिदशाधिपे अवस्थानात्, 'तदर्थनिरपेक्ष' मिति तस्यइन्द्रादिनाम्नोऽर्थस्तदर्थः - परमैश्वर्यादिरूपस्तस्य निरपेक्षं तदर्थनिरपेक्षं, तथाहि इन्द्र इति किमुक्तं भवति ? - 'इदु परमैश्वर्ये' | इन्दनादिन्द्रः परमैश्वर्ययुक्त इत्यर्थः एवंभूतेन चार्थेन युक्तमिदं नाम परमार्थतखिदशाधिपे एव वर्त्तते, तस्य तास्विक परमैश्वर्ययुक्तत्वात्, गोपालके तु तदर्थशून्यमिति, तथा 'पर्यायानभिधेय' मिति, इह नाम नामवतोरभेदोपचारात् इन्द्र इति गोपालदारकवस्त्वेव गृह्यते तत्पर्यायैः शक्रपुरन्दरपाकशासनशतमखप्रभृतिभिरनभिधेयं पर्यायानभिधेयं, न हि गोपालदार कव| स्त्विन्द्रशब्दवाच्यमपि तात्त्विकेन्द्रवत् शक्रपुरन्दरादिशब्दैरभिधेयमिति, प्रतीतमेतत् एवंभूतं नाम, प्रकारान्तरेण नान्नः स्वरूपमाह - 'यादृच्छिकं च तथेति यदृच्छया निर्वृत्तं यादृच्छिकं, किमुकं भवति १-न केवलमनन्तरोक्तलक्षणं नाम, किन्तु अन्यत्रावर्त्तमानमपि यद् एवमेव यदृच्छया गोपालदारकादेर्नाम क्रियते यथा डित्थो डवित्थ इति तदपि नाम, इदं | चोभयरूपमपि प्रायेण यात्रद्रव्यभावि, मेरुद्वीपसमुद्रादिकं हि नाम प्रभूतं यावद्रव्यभावि दृश्यते किञ्चित्त्वन्यथाऽपि,
Jan Education in
... मङ्गल शब्दस्य नाम आदि निक्षेपाः दर्शयन्ते
For Pivate & Personal Use Only
25~
नामनिक्षेप
॥५॥
www.janlibrary.org