________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jain Education h
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [-], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०],
भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
प्रभवति, अथ शास्त्रस्य कथं स्वतो मङ्गलता १, उच्यते, निर्जरार्थत्वात्, तथा चात्र प्रयोगः - अधिकृतं शास्त्रं सकलमपि मङ्गलं निर्जरार्थत्वात् तपोवत्, अथ कथमस्य निर्जरार्थतेति चेत्, उच्यते, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् उक्तं च- "जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तन्नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥ १ ॥” [ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥ ] तस्मात् स्थितमेतत् - शास्त्रस्यादौ मध्येऽवसाने च मङ्गलमुपादेयमिति ।
अथ मङ्गलमिति कः शब्दार्थः, उच्यते, 'अग वगु मगु' इत्यादि दण्डकधातुः, 'उदितः' इति नम्, मनवते अधिगम्यते प्राप्यते इतियावत् हितमनेनेति मङ्गलं “मृदिकन्दि कुण्डिपटिपाटिमङ्गिश किमंडिके व्यमिचञ्चिदेवृशलिकलिकमपलिगुध्यञ्चिचपिवहिदि हिकुहितृसृपिशितुसि कुस्य निद्रमेरल' इत्यलप्रत्ययः, अथवा मयते- प्राप्यते स्वर्गोऽपवर्गो वाऽनेनेति मङ्गः'पुन्नाम्नी'ति करणे घप्रत्ययः, मङ्गो नाम धर्म्मः, तथाऽत्र पूर्ववैयाकरणप्रसिद्धेः तं लाति -आदत्ते इति मङ्गलं, 'आतोऽनुपसर्गा, दह्वायामः' इति उप्रत्ययः, मङ्गो नाम धर्मः धम्र्मोपादानहेतुरिति भावः, उक्तं च- 'मंगिज्जरऽधिगम्मइ जेण हियं तेण मंगलं होइ। अहवा मंगो धम्मो तं लाइ तयं समादत्ते ॥ १॥” (भा० ) अपरे पुनरेवं व्युत्पत्तिमाचक्षते मडु भूपायां, मण्ड्यते-शास्त्र| मलङ्कियतेऽनेनेति मङ्गलं पूर्ववदलप्रत्ययः, अथवा 'मन् ज्ञाने' मन्यते - ज्ञायते निश्चीयते विनाभावोऽनेनेति मङ्गलं, यदिवा 'मदै हर्षे' माद्यन्ति-विघ्नाभावेन हृप्यन्ति शिष्या अनेन 'मह पूजायां वा मह्यते पूज्यते शाखमनेनेति मङ्गलं, सर्वत्र “विरलोरलक| पिंजलयुगल भगल कुन्तलोत्पल कोमलपिङ्गलकाइलादय" इत्यलप्रत्ययो निपातनाच्च विवक्षितरूपनिष्पत्तिः, नैरुक्काः पुनरेवं
... अत्र 'मङ्गल' शब्दस्य अर्थ दर्शयते
For Pityte & Personal Use Only
~24~
jainslibrary.org