________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र -१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-]
निर्युक्तिः [ १०४, १०५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
भावे खओवसमिए दुबालसंगंपि होइ सुयनाणं । केवलियनाणलंभो नण्णत्य लए कसायाणं ॥ १०४ ॥ भवनं भावो भवतीति वा भावस्तस्मिन् स च औदयिकाद्यनेकभेदस्तत आह- क्षायोपशमिके, द्वादशाङ्गानि यत्र तत् द्वादशाङ्गम्, अपिशब्दादबाह्यमपि भवति श्रुतज्ञानम् उपलक्षणमेतत्, मत्यादिज्ञानत्रयमपि सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं - धातिकर्मवियोग इत्यर्थः तस्मिन् ज्ञानं कैवल्यज्ञानं, कैवल्ये सति ज्ञानग्रहणेन इह यो 'बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते' इति वचनात् प्रकृतिविमुक्तस्य बुद्ध्यभावात् ज्ञानाभाव इति प्रतिपन्नस्तस्य प्रकृतिमुक्काज्ञानिपुरुषप्रतिपादनपरकुनयमतव्यवच्छेदमाह, तस्य लाभः - प्राप्तिः, कथं ? -कपायाणां क्रोधादीनां क्षये सति नान्यत्र, तृतीयार्थे सप्तमी, नान्येन प्रकारेण, छास्थवीतरागावस्थायां कषायक्षये सत्यप्यक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरं चावश्यभावे कषायक्षयग्रहणं प्राधान्यख्यापनार्थ, कषायक्षय एव सति निर्वाणं, नान्यथा, कषायक्षय एव सति त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः, नन्वेवं तर्हि यदादावुक्तं श्रुतज्ञानेऽपि वर्त्तमानः सन् जीवो न प्राप्नोति मोक्षं, यस्तपः संयमात्मकयोगशून्य इति विशेषणं तदनर्थकं श्रुतेऽपि सति तपःसंयमात्मकसहिष्णोरपि मोक्षाभावात्, सत्यमेतत्, केवलं क्षायोपशमिक सम्यक्त्व श्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन परम्परया मोक्ष हेतुत्वमस्तीत्यदोषः । आह प्रतिपन्नमस्माभिर्मोक्षकारणकारणं श्रुतादि, परं तस्यैव कथमलाभो लाभो बेति, उच्यतेअहं पडणं उकोसहिईऍ घट्टमाणो उ । जीवो न लहइ सामाइयं चपि एगयरं ॥ १०५ ॥ अष्टानां प्रकृतीनां ज्ञानावरणीयादिकर्म्मप्रकृतीनाम उत्कृष्टा चास्यै स्थिति उत्कृष्टस्थितिस्तस्यां वर्त्तमानो जीवो न लभ
Jan Education Intern
•••• कषायक्षये एव मोक्षः
... सामयिक प्राप्तेः संयोगः
For Pitate & Personal Use Only
~236~
jainslibrary.org