________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ९१], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
वयणं पवयणमिह सुयनाणं कथं सई होज । पवयणमहवा संघो, गर्हिति तयणुग्गहट्ठाए ॥ ६ ॥ (वि.) " | प्रयोजनान्तरं प्रतिपिपादयिषुरिदमाह
घे व सुहं सुहगणणधारणा दाउ पुच्छिउं चैव । एएहिं कारणेहिं जीयंति कथं गणहरेहिं ॥ ९१ ॥ भोकं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना ग्रहीतुं न शक्यते, प्रथितं तु सूत्रीकृतं सत् ग्रहीतुं आदातुं सुखं भवति, सुखेन प्रहीतुं प्रभूतमपि शक्यते इति भावः, इयमत्र भावना-पदवाक्यप्रकरणाध्यायोद्देशाध्ययनप्राभृतवस्तु पल्लवादिनियतक्रमव्यवस्थापितं जिनवचनमेतावदस्य गृहीतमेतावञ्च पुरस्ताद् ग्रहीत - व्यमिति विवक्षया प्रवर्द्धमानेनोत्साहेन यक्षत एवं ग्रहीतुं शक्यते, तथा गुणनं धारणं च गुणनधारणे ते अपि प्रथिते सति सुखं भवतः, तत्र गुणनं - परावर्त्तनं धारणा त्वविस्मृतिः, तथा दातुं शिष्येभ्यः प्रष्टुं च संशयापनोदार्थं गुरुपादमूले सुखं भवति, सुखेन प्रश्नः शिष्येभ्यश्चातिसर्जनं कर्त्तुं शक्यत इति भावः, एतैरनन्तरोक्तैः कारणैः जीयन्त इति जीविरुद श्रुतस्योजीवनमिदमिति, किमुतं भवति ? - जीवितं जीवनरूपं न कदाचिद् व्यवच्छेदमुपयाति तथा श्रुतमप्यव्यवच्छि तिनयाभिप्राय तो न कदाचिद् व्यवच्छिद्यते, ततो जीवितमिव जीवितं सदाऽवस्थानं द्वादशाङ्गस्य स्यादित्येवमर्थं कृतं प्रथितं गणधरैः, अथवा न सुखादिकारणेभ्य एव, किं तर्हि ? 'जीयंति'त्ति जीवितं मर्यादा गणधराणामिदं जीवितम् इयं मर्यादा तन्नाम कर्मोदयतस्तत्स्वभावतया कर्त्तव्यमेव श्रुतविरचनमिति तैः सूत्रं प्रथितम्, अथवा जीयन्त इति जीतम् आचरितं कल्प इत्येकोऽर्थः ततः सर्वेषां गणभृतामिदं जी [वि]तम्-अयं कल्पो यथा सन्दर्भणीयं तीर्थकरवचनमिति तैः कृतं,
Jan Education International
For Pitate & Personal Use Only
226~
www.janlibrary.org