________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घाते
॥ २॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [-], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
प्रपञ्चतो धर्मसङ्ग्रहणिटीकादाविति ततः परिभावनीयं, अथ यदि वचनस्य वाह्यार्थ प्रति प्रामाण्यं तर्हि अत एव सम्यगभिधेयादिपरिज्ञानभावान्निरधिंका शास्त्रे प्रेक्षावतां प्रवृत्तिः, फलाभावात् प्रवृत्ती हि फलमभिधेयादिपरिज्ञानं तच्चाधि कृतप्रयोजनाद्युपन्यासत एव सिद्धमिति, तदेतद्बालिशविजृम्भितं, अधिकृतेन हि प्रयोजनाद्युपन्यासेन प्रयोजनादीनामधिगतिर्भवति सामान्येन, नाशेषविशेषपरिज्ञानपुरस्सरा, अधिकृतप्रयोजनाद्युपन्यासस्य सामान्येन प्रवृत्तत्वात्, 'सामान्यनिष्ठं हि वचः सामान्यं प्रतिपादयति, विशेषनिष्ठं विशेषम् अतो वचनप्रामाण्यादधिकृतप्रयोजनाद्युपन्यासवाक्यतः * सामान्येन प्रयोजनादिकेऽधिगते कथं नु नाम अस्माकं सविशेषं सामायिकादिपरिज्ञानं स्यादिति विशेषपरिज्ञानाय भवति प्रेक्षावतां शास्त्रे प्रवृत्तिः, अन्यच्च यदि वचनस्याप्रामाण्यमभ्युपगम्यते तथापि न काचिद्विवक्षितार्थक्षतिः, संशयतोऽपि प्रवृत्तिभावात्, तथाहि -अनेनाधिकृतप्रयोजनाद्युपन्यासेन तद्विषयसंशय उपजन्यते, संशयश्च द्विधा -अर्थसंशयोऽनर्धसंश यश्च तत्रार्थसंशयो यथा यदि वृष्ट्यादिसामग्री ततः सम्भवति शस्य निष्पत्तिः, अनर्थसंशयो यथा - (यदि) विषमिदं यो भक्षयति स म्रियते, तत्रानर्धसंशयात् न कस्यचित्सचेतसः प्रवृत्तिः, अनर्थतः संशयस्यापि विभ्यस्वात्, अर्थसंश. यस्तु प्रेक्षावतोऽपि प्रवृत्त्यङ्ग, अनर्थकशङ्काया अभावात् फलस्य च केषाञ्चिदर्शनात्, न चायमधिकृतप्रयोजनाद्युपन्यासजनितः संशयोऽनर्थसंशय इति भवति प्रेक्षावतां प्रवृत्तिरिति न किञ्चिदनुपपन्नम् ॥ सम्प्रति मङ्गलमुच्यते, यतः श्रेयांसि बहुविघ्नानि भवन्ति, उक्तं च- "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ १ ॥” | अयमपि च आवश्यकानुयोगो निर्मुक्तिरूपः परमपदप्राधिवीजभूतत्वात् श्रेयोभूतः ततो मा भूत्तत्र विघ्न इति तदारम्भे विघ्न
Jan Education Interna
For Pitate & Personal Use Only
~19~
प्रयोजन
वाक्यस्य सफलता
।॥ २ ॥
www.jainslibrary.org