SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [H] “आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ७८ ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः | सिद्ध केवलज्ञान १ मतीथसिद्ध केवलज्ञानं २ तीर्थंकरसिद्ध केवलज्ञान ३ मतीर्थकर सिद्ध केवलज्ञानं ४ स्वयंबुद्धसिद्ध केवलज्ञानं ५ प्रत्येकबुद्धसिद्धकेवलज्ञानं ६ बुद्धबोधितसिद्धकेवलज्ञानं ७ खीलिङ्गसिद्ध केवलज्ञानं ८ पुरुषलिङ्गसिद्ध केवलज्ञानं ९ नपुं| सकलिङ्गसिद्ध केवलज्ञानं १० स्वलिङ्गसिद्ध केवलज्ञान ११ मन्यलिङ्गसिद्ध केवलज्ञानं १२ गृहिलिङ्गसिद्ध केवलज्ञानं १३ एक| सिद्ध केवलज्ञानं १४ अनेकसिद्ध केवलज्ञानं १५ च । तत्र ये तीर्थकराणां तीर्थे वर्त्तमाने सिद्धास्तेषां यत्केवलज्ञानं तत्तीर्थसिद्धकेवलज्ञानम्, यत्पुनस्तीर्थकराणां तीर्थेऽनुत्पन्ने व्यवच्छिन्ने वा सिद्धास्तेषां यत्केवलज्ञानं तदतीर्थसिद्धकेवलज्ञानं, तीर्थकराः सन्तो ये सिद्धास्तेषां केवलज्ञानं तीर्थकरसिद्ध केवलज्ञानं, शेषाणामतीर्थकरसिद्ध केवलज्ञानं, तथा स्वयंबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं स्वयंवृद्ध सिद्ध केवलज्ञानं, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं प्रत्येकबुद्धसिद्धकेवलज्ञानम्, अथ स्वयंवुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतः, तथाहि स्वयंवुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव - वाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयंबुद्धा इति व्युत्पत्तेः, आह च चूर्णि कृत् - "सयमप्पणिज्जं जाइस्सरणादिकारणं पहुच बुद्धा सयंबुद्धा” इति, ते च द्विधा-तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिचैरधिकारः, आह च चूर्णिकृत् -"ते सर्वबुद्धा दुविहा- तित्थयरा तित्थयरवइरित्ता य, इह वइरितेहिं अहिगारो' इति, प्रत्येकबुद्धास्तु वाह्यं प्रत्ययमपेक्ष्य, प्रत्येकं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः इति व्यु | त्पत्तेः तथा च श्रूयते बाह्यप्रत्ययसापेक्षा करकण्डादीनां बोधिः, बहिः प्रत्ययमपेक्ष्य ते च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छ्वासिन इव संहताः, उकं च चूर्णो- "पत्तेयं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, Jan Education International For Pitate & Personal Use Only 182~ jainslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy