________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं , नियुक्ति: [७], भाष्यं H, विभा गाथा [८२५,८२६,८२८], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
केवलज्ञानं गा.७६
प्रत
सूत्रांक
H
दीप
आव.मल. इति, पठितश्चान्यत्राप्युपन्यासार्थोऽधशब्दः, यत उकम् अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि"ति, उपोद्धाते सर्वाणि च तानि द्रव्याणि च-जीवादीनि तेषां परिणामाः-प्रयोगविनसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणा- अवधी IPमास्तेषां भावा-सत्तास्वरूपंस्खलक्षणं वा स्वं स्वमसाधारणरूपं तस्य विशेषेण ज्ञान विज्ञप्तिः विज्ञानं वा विज्ञप्तिः परिच्छेद इत्यर्थः ।।
तस्याः कारण-हेतुः सर्वद्रव्यपरिणामविज्ञप्तिकारणं, केवलज्ञानमिति सम्बध्यते, उक्तं च-"सबदवाण पओग-धीससामी-| सजा जहाजोगं । परिणामा पजाया जम्मविणासादओ सवे (ते उ)॥१॥ तेर्सि भावो सत्ता, सलक्खणं वा विसेसतो तस्स । नाणं विष्णत्तीए कारणं केवलण्णाणं ॥२॥" (वि.८२५-६) तच्च स्वज्ञेयानन्तत्वादनन्तम् , तथा शश्वद् भवं शाश्व
तम्, सदोपयोगवदिति भावार्थः, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदावस्थायीति भावः, ननु यत् है शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन?, तदयुक्तम् , सम्यक्शब्दार्थापरिज्ञानात् , शाश्वतं हि नाम अनवरतं भवदु
च्यते, शश्वद्भवंशाश्वतमिति व्युत्पत्तेः,तच्च कियत्कालमपि भवति,यावद्भवति तावनिरन्तरं भवनात्,ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, एष तात्पर्यार्थः-अनवरतं सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावप्रतीतिज्ञापनार्थ विशेषणद्वयोपादानम्, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं च भवति, यथा अप्रतिपात्येवावधिज्ञानमिति,तथा एकविधम्-एकप्रकारं तदावरणक्षयस्यैकरूपत्वात् , उक्कं च-"पजायओ अणंतं, सासयमिदं सतोवओगाओ। अबयओऽपडिवाई एगविहं सबसुद्धीए ॥२॥" (वि.८२८) केवलं च तत् ज्ञानं च केवलज्ञानम् ॥ इह तीर्थकृत्समुपजातकेवलालोकस्तीर्थकरनामकर्मोदयतः तथाखाभाच्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुमहाय
KAKUCCESS
अनुक्रम
JanEducation ino
~179~