SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [२०], भाष्यं H, विभा गाथा [५१५-११७], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पोहाते प्रत ज सूत्रांक C%A दीप अनुक्रम मग्य मन्यते चिन्तनीयं वस्तुजातं, तेनासौ गर्भजस्तिर्यग्मनुष्यो वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशि- ष्टमनोलन्धिविकलत्वात् , तथा च सति दीर्घकालिकोपदेशेनासंज्ञी एकेन्द्रियो द्वीन्द्रियादिश्च प्रतिपत्तव्यः, हेतुनिमित्त कारणमित्यनर्थान्तरं तस्य वदनं वादः तद्विषय उपदेशः-प्ररूपणं हेतुवादोपदेशस्तेन संज्ञी, यो बुद्धिपूर्वकं स्वदेहपरिपालनाय इष्टेष्वाहारादिषु प्रवर्त्तते अनिष्टेभ्यस्तु निवर्त्तते, स च द्वीन्द्रियादिरपि वेदितव्यः, तस्यापि मनासचिन्तनपूर्वकमिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात्, केवलमस्य मनसा चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्विपयमल्पमनोलम्धिसम्पन्नत्वात् , ततो न दीर्घकालिकोपदेशेन संज्ञी लभ्यते, एतन्मतेनासंज्ञिन एकेन्द्रिया एव द्रष्टव्याः, उकंच-"जे पुण सचिंते इटाणिहेसु विसयवत्थुसुं । वति नियत्तंति य सदेहपरिपालणाहे ॥१॥पारण संपइच्चिय कालेंमि तया ण दीहकालण्णू । ते हेउवायसण्णी निचिट्ठा होंति उ असणी ॥२॥" (वि०५१५-५१६) तथा दृष्टिः दर्शनंसम्यक्त्वादि तस्य वदनं वादः तद्विषय उपदेशः-प्ररूपणं तेन संज्ञी-सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणक्षयोपशमभावात् , असंझी मिथ्यादृष्टिः, उक्तंच-"सम्मद्दिड्डी सण्णी संते नाणे खओवसमियंमि । अस्सण्णी मिच्छ दिट्ठीवायोवएसेणं (वि०५१) ततश्च संझिनः श्रुतं संज्ञिश्रुतं, तथा असंजिनः श्रुतमसंज्ञिश्रुतं, तथा सम्यक् श्रुतं-अङ्गाननपविष्टमःचारावश्यकादि, तथा मिथ्याश्रुतं-पुराणरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यकश्रुतं इतरद्वा, तथाहि- सम्यग्दृष्टी सर्वमपि श्रुतं सम्यक्तं,हेयोपादेयशास्त्राणांहेयोपादेयतया परिज्ञानात्,मिथ्यादृष्टौ सर्व मिथ्याश्रुतं विपर्ययात् ॥ तथा सादिसपर्यवसितमनायपर्यवसितं च नयानुसारतोऽवसेब, तब द्रव्यास्तिकनयमतादेशेन अनाद्यपर्यवसितं धर्मास्तिका Siex ४७॥ JEKT vsansliterary.orm ~109~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy