________________
भारद्वाजकाण्डम..
द्रष्टव्या ॥ इह गौतमगणानामृक्षप्टषदश्वगणौ वर्जयित्वा सर्वेषां स्वस्वं गणं विहाय परस्परमविवाहो द्रष्टव्यः ; कुतः, समानगोत्रत्वात् । समानगोत्रत्वं च गौतमस्य सप्तऋषरपत्यत्वात् । स्वेषु गणेषु सुतरामविवाहः, समानप्रवरत्वात् ॥ अपि च 'गौतमानां लैवषामाववाहः' इति बोधायनवचनाच्च सर्वेषामविवाहः ॥
इति व्याख्यातं गौतगोत्रप्रवरकाण्डम् ॥
अत्र श्लोकःगौतमानां न सर्वेषां विवाहोस्ति परस्परम् ।
सगोत्रत्वाच्च वाक्याच्च बोधायनमुखोद्गतात् ॥ इति ॥
अतः परं भरद्वाजानां गोत्रप्रवरकाण्डमुदाहरिष्यामः । अत्र श्लोकः
नमस्कारमष्टाङ्गमग्रे गुरूणामृषीणामतिप्रेमपूर्व प्रयुज्य । भरद्वाजकप्यृक्षगर्गद्विगोत्रप्रभेदं प्रवक्ष्ये भरद्वाजकाण्डम् ॥ अत्र बोधायनः
भरद्वाजाः क्षाम्यायणा मगण्डा देवावा उदहव्याः प्राग्वाशयो वाहलवा योगा वासिनायनाः स्तौदेहा आत्रा औक्षा भूरयः परिणद्वेषाः केश
* ५१ पृष्ठे.