SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी, न समानप्रवराणामिति तद्दृढीकरणार्थं तत्रतत्राहतुरिति । अपरे वदन्ति — बहुकृत्वोपि तथा वेदितव्यमिति । तथाऽन्ये वदन्ति — सूत्रका - रयोः शैली सेति । अवश्यमेव हि कस्य चित् काचिच्छेली भवति । यथा बोधायनः प्रथमकाण्ड एवं ' इत उर्ध्वानध्वर्युर्वृणीते अमुतो र्वाचो होतेत्येष एवोभयोस्सर्वत्रोद्देशः ' इत्युक्त्वाऽपि तत्रतत्र प्रतिगणं ' होताऽध्वर्युः' इति वदति ग्रन्थगौरवभयं त्यक्त्वा । तथा चापस्तम्बादयोप्ये कार्षेयवसिष्ठशुनकादीनां प्रवरेष्वेव होताऽध्वर्युरिति वदन्ति । तथाऽऽश्वलायनः प्रवरमात्रमेव सर्वत्र वदति नान्यत् किञ्चित् । तथा कात्यायन लोगाक्षी चेति । अपरे वदन्ति यथा भिन्न गोत्रात्समानगोत्रास्सन्निकृष्टा इति कृत्वा तत्रतत्र विवाहे दोषा उक्ताः तथा सगोत्रादपि समानगोत्रः सन्निकृष्टतरः, एकर्घ्यपत्यत्वेन भ्रातृतुल्यत्वात् ; तत्रतत्र विवाहे ततोपि गुरुतरो दोष इति दर्शयितुं तत्रतत्राहतुरिति । अपरे पण्डित - म्मन्याः स्वमनीषया व्याचक्षते - एतेषामेवाविवाहोस्मिन् गणे नान्येषामिति मत्वा तत्रतत्राहतुरिति । एवं तर्हि सूत्रकारयोः श्रोत्रियत्वमापादितं स्यात् । कथम्? तथा सति गणान्तरोक्तानां समान गोत्राणामपि सतां तस्मिन्नेव गणे विवाहप्रतिषेधो न स्यात् । इष्यते च प्रतिषेधः । तस्माद्यथोक्त एवाभिप्राय इति ॥ ४८ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्यां भृगुगोत्रप्रवरकाण्डव्याख्यानं समाप्तम्. अथ आङ्गिरसानां गोत्रप्रवरकाण्डं त्रिविधमुदाहरिष्यामः । तत्र श्लोकः -- बोधायनादिमुनिपादगतप्रणाम प्रासादलब्धमतिना पुरुषोत्तमेन । * एवं वदद्भिः •
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy