SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४० प्रवरमञ्जरी, अश्वमेधे सुवितते ब्रह्मणः परमेष्ठिनः। महादेवस्य शापेन त्यक्ता देहान्त्स्वयं ततः॥ ऋषयस्ते समुद्भूता हुते शुक्रे यथेच्छया। देवानां मातरो दृष्ट्वा देवपत्न्यस्तथैव च ॥ स्कन्नं शुक्रं महाराज ब्रह्मणः परमेष्ठिनः । तजुहाव। ततो ब्रह्मा ततो जातो हुताशनः ॥ ततो जातो महातेजा भूगुश्च तपसां निधिः । अङ्गारेष्वङ्गिरा जातो ह्यर्चिभ्योत्रिस्तथैव च ॥ मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः। केशैस्तु कपिशैर्जातः पुलस्त्यस्तु महातपाः॥ केशैः प्रलम्बैः पुलहस्ततो जातो महाशयाः। वसुमध्यात्समुत्पन्नो वसिष्ठश्च तपोधनः॥ भृगुः पुलोम्नश्च सुतां दिव्यां भार्यामविन्दत । यस्यामस्मात्सुता जाता देवा द्वादश याज्ञिकाः॥ भुवनो भौवनश्चैव सुजन्यस्लुजनस्तथा । शुचिः क्रतुश्च मूर्धा च याज्यश्च वसुदश्च ह ॥ प्रभवश्वाव्ययश्चैव दक्षो द्वादशमस्तथा । इत्येते भृगवो नाम देवास्तु द्वादशात्मकाः ॥ *महान् समं. -तजहार.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy