SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रवरमअरी. इत एवोर्ध्वानध्वर्युर्वृणीतेऽमुतोर्वाचो होता ॥ ९ ॥ इति लौगाक्षिरित्येतावन्मात्रे पाठविशेषः । अन्यत्समानमिति ॥ ९ ॥ इति कात्यायन लौगाक्षिप्रणीतगोत्रप्रवरकाण्डानामाद्यं परिभाषासूत्रकाण्डमुदाहृतम्. २२ इह कात्यायन लौगाक्षिप्रणीतप्रवराध्याययोर्भाप्यादर्शनात् सूत्रान्तराभियोगबलात् गुरुप्रसादाच्च यथावदिदं काण्डं व्याख्यास्यामः - अत्र श्लोक: ―――― बोधायनादिमुनिवृन्दपदारविन्द प्रेमप्रवर्धितमतिः पुरुषोत्तमोहम् | सूत्रान्तरेष्वभिनिवेशबलादिदानीं कात्यायनप्रवरभाप्यमहं करिष्ये ॥ अथातः प्रवरान्व्याख्यास्यामः ॥ १॥ इदं सूत्रं महाप्रवरभाष्ये वृत्तव्याख्यानमिति न व्याख्यायते ॥ १ ॥ तदेतत् सन्तत्या इति ॥२॥ इदमपि सूत्रमापस्तम्बसूत्रभाष्ये कृतव्याख्यानमेव ॥ २ ॥ ...... एकं वृणीते . न पञ्चातिवृणीत इति ॥३॥ ****** अत्र दर्शपूर्णमासयोरेवार्षेयवरणविधिपरं ब्राह्मणं महाप्रवरभाष्ये अस्माभिरुदाहृतं व्याख्यातं च । " अथार्षेयं प्रवृणीत ऋषिभ्यचैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते " इत्यादि । एतद्ब्राह्मणाभिप्रायं व्याचक्षाणेन कात्यायनेनैवमुक्तम् — “ विद्वांश्चिकित्वान्मनुवद्भरतवदमुवदमुवदिति यजमानार्षेयाण्याह । पुरस्तादर्वाचि त्रीणि; यावन्तो वा मन्त्रकृतः " इति । तत्र पुरस्तादर्वाञ्चि त्रीणीत्यस्य पक्षस्य मूलभूता श्रुतिरधस्तादेवोदाहृता “ त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षिमन्त्रकृतो वृणीते " इति । इदानीं यावन्तो
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy