________________
महाप्रवराध्यायः. " सप्तानामृषीणामगस्याष्टमानां यदपसं तद्गोत्रमित्युच्यते" . इति । यत्तु पाणिनीयं गोत्रलक्षणं 'अपत्यं पौत्रप्रभृति गोत्रम्' इति तस्यापत्यमात्रविषयत्वेन सामान्यत्वात् बोधायनीये गोत्रलक्षणे अगस्त्याष्टकसप्तमेपत्यविषये पर्यवसानं, अन्यथा चण्डालादेरपत्यमपि पौत्रप्रभृति गोत्रं प्रसज्यत इत्यतिव्याप्तिप्रसङ्गात् इत्यस्य बोधायनीयस्य सूत्रस्य व्याख्यानावसरे भविष्यति ॥
गोत्रस्वरूपसिद्धवत्कारेण समानगोत्रलक्षणोपदेशपरमिदं सूत्रम् । अस्यायमर्थः-एक एवागस्त्याष्टमसप्तर्षिगोत्राणां अगस्त्याष्टमसप्तर्ण्यपत्यात्मनां तिसृभिः कोटिसंख्याभिः सखचातानां वक्ष्यमाणानां प्रवरेष्वेक द्वित्रिपञ्चायेषु व्रियमाणतया सत्तया चानुवर्तते तावतां गोत्राणां समानगोत्रत्वमुक्तं विज्ञेयम् । एतदुक्तं भवति-अगस्त्याष्टमानां सप्तर्षीणामन्यतममृषिमेकं वा सद्वितीयं वा सतृतीयं वा सपञ्चमं वा ये प्रवृणुते ते सर्वे समानगोत्रा इति । तत्रायं विशेषः---‘अन्यत्र भृग्वङ्गिरसां गणात्' इति । अयमर्थः-जमदग्निव्यतिरिक्तानां भृगूणां गणात् गौतमभरद्वाजव्यतिरिक्तानां अङ्गिरसां गणाच्च अन्यत्र । गणादित्येकवचनं जात्यपेक्ष-गणेभ्योन्यत्र । अगस्त्याष्टमसप्तर्ण्यपत्यानां गणेष्वेवैकर्ण्यनुवृत्त्या समानगोत्रत्वमुक्तं विज्ञेयम् । जमदग्निगौतमभरद्वाजव्यतिरिक्तानां तु भृग्वङ्गिरसामगस्त्याष्टमसप्तमेपत्यबाह्यत्वेन गोत्रत्वासंभवात् गोत्रसिद्धवत्कारपूर्वकं संमानगोत्रत्वं नास्तीति मत्वा 'अन्यत्र भृग्वाङ्गिरसां गणात्' इति पर्युदासः कृतः ॥
नन्वसत्यां प्राप्तौ कथं पर्युदासः, प्राप्त्यपेक्ष्यत्वात्तस्य?सत्यमेवम्, अस्त्यत्रापि भ्रान्तिनिमित्ता अन्यत्र प्राप्तिः । कथं ?अगस्त्याष्टमसप्तमेपत्यभूतान् वत्सादीन् गोत्रशब्दं प्रयुञ्जानान् दृष्ट्वा तत्परमासन्नविवेकाग्रहणात् मित्रयुवशुनकहरितरथीतरमुद्गला