SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. र्वाग्भूतान्मन्त्रदृशः अध्वर्युप्रवरक्रमविपर्ययक्रमेण तदपत्यसम्बन्धेन प्रार्थयते तमेवाग्निं यथा भार्गवच्यावनानवानौर्वजामदग्न्येति । एवमुभाभ्यां प्रार्थितोनिर्यजमानयोग्यतां ज्ञात्वा तदीयं हविर्देवेभ्यो दास्यति । यथा कर्माङ्गभूतानामृत्विजां वरणं तत्प्रार्थनं यजमानेन प्रार्थितास्सन्तः कर्माङ्गानि करिष्यन्तीति, तथा होतुरध्वर्योश्च वरणमग्निप्रार्थनं ताभ्यां प्रार्थितोग्निर्देवेभ्यो हव्यं वहतीति । एष एव प्रवरक्रमविशेषो होतुरध्वर्योश्चाध्यायपरिसमाप्तिपर्यन्तं सर्वत्रोपदेष्टव्यः ॥ द्वयार्षेयसन्निपातेऽविवाहस्त्र्यार्षेयाणां त्र्यार्षेय १४ सन्निपातेऽविवाहः पञ्चार्षेयाणामसमानप्रवरैर्विवाहः ॥ ---- भृग्वङ्गिरसो भिन्नविवाहं कुर्वते न चेत्समानार्षेया बहव - स्स्युः' इति उक्तमधस्तात् । अनेन सूत्रेण भृग्वङ्गिरसां अविवाहकारणभूतं समानबहृषित्वमाह — त्र्यार्षेयाणां भृगूणां द्वयार्षेयसन्निपातादविवाहः समानर्षिबाहुळ्यात् । अङ्गिरसामपि हरितानां कुत्सानां च त्र्यार्षेयाणां द्वयार्षेयसन्निपातादविवाहः । सन्निपातः समत्वम् । तथा पञ्चार्षेयाणां भृगूणामाष्टिषेणानां वत्सानां बिदानां च त्र्यार्षेयसन्निपातादविवाहः । यथा चैवं तथा स्वस्थाने वक्ष्यामः ॥ 9 एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात् ॥ 6 गोत्रलक्षणमुपरिष्टाद्वक्ष्यति विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy