________________
प्रवरमञ्जरी.
यथा चैवं तथा वक्ष्यामः ॥ अतोन्ये त्रिप्रवरा भवन्ति ॥
परिगणितेभ्यो वत्सादिभ्यो वसिष्ठान्तेभ्यो येऽन्ये वीतहव्यादयोगस्त्यान्तास्तिसृभिः कोटिसचाभिः संख्याता उत्तरत्रास्माभिर्वक्ष्यन्ते ते सर्वे त्रिप्रवरा भवन्ति । अयमपि स्वाभिप्राय एव, सूत्रान्तरेष्वन्यथाऽपि दर्शनात् । त्रिभिर्वरणं त्रिप्रवरः, स येषां ते त्रिप्रवराः, यायप्रवराः, भवन्तीत्यर्थः । स्वाभिप्रायोयं, एतेषामपि सूत्रान्तरेष्वेकायद्यार्षेयत्र्यायपञ्चार्षेयाणां दर्शनात् । यथा चैतदुभयं तथा वक्ष्यामः ।।
एतेषु भृग्वङ्गिरसो भिन्नविवाहं कुर्वते न चेत्समानार्षेया बहवस्स्युरिति मतं बोधायनस्येति ॥
अस्य सूत्रस्य द्विविधं व्याख्यानम्
एकं तावदुच्यते-एतेषु परिगणितेषु गोत्रेषु भृगोरङ्गिरसश्च जमदग्निगौतमभरद्वाजव्यतिरिक्ताः भृगुत्वेनाङ्गिरस्त्वेन चाभिन्ना अपि सन्तो भिन्नविवाहं कुर्वते । भिन्नवद्विवाहो भिन्नविवाहः । भिन्नश्चासौ विवाहश्चेति भिन्नविवाहः । यथाऽऽगस्त्याष्टमसप्तर्षिपक्षीयाः परस्परभिन्नगोत्रीयाः स्वस्वं पक्षं विहाय पक्षान्तरीयैः भिन्नगोत्रैस्सह विवाहं कुर्वते तथा भृग्वङ्गिरसो जमदग्निगौतमभरद्वाजव्यतिरिक्ताः वीतहव्यशुनकमित्रयुववैन्यहरितकुत्सकण्वरथीतरमुद्गलविष्णुवृद्धादयो भृगुत्वेनाङ्गिरस्त्वेन चाभिन्ना अपि स्वस्वं गणं विहाय गणान्तरीयैः सह विवाहं कुर्वत इत्यर्थः ।
अपरा व्याख्या-अभिन्नविवाहं कुर्वत इति सूत्रच्छेदः । अस्यायमर्थः-भृगवो भृगुत्वेनाभिन्ना अपि स्वस्वं गणं विहाय