SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ महाप्रवराध्यायः. ۱۹ वरास्ते । एवं सर्वत्र । असमानप्रवरास्तु नामसंख्याक्रमाणां अन्यतमेनैकेन द्वाभ्यां त्रिभिर्वा भिन्नाः प्रवरा येषां त इति । तत्राविशेषेण सर्वे प्रवरा व्याख्येयत्वेन प्रतिज्ञायन्त इति ॥ सप्तानामृषीणामगत्स्याष्टमानां पक्षा भवन्ति ॥ येषामिह प्रवरा व्याख्येयत्वेन प्रतिज्ञातास्ते सर्वे ब्राह्मणा एव विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपानां सप्तानां ऋषीणां अगस्त्याष्टमानां पक्षा भवन्ति; पक्षः वंशः वर्गाः गोत्राणीत्येकार्थाः ॥ ननु भृग्वङ्गिरसोः कस्मादिह पक्षा नोक्ताः, तेऽपि सप्तर्षिपक्षे वक्ष्यन्त एव । अत्रोच्यते—भृग्वङ्गिरसोस्सप्तर्षित्वाभावात् सप्तर्षिपक्षोपदेशेनैव भृग्वङ्गिरसोः पक्षोपदेशस्यान्यथासिद्धत्वाच्च भेदेन नाच्यन्त इति ॥ त्रयः पक्षा भृगूणां पञ्चार्षेया वत्सा विदा आष्टिषेणाः ॥ यथा चैते पञ्चार्षेयाः तथा चैतान् स्वस्थाने वक्ष्यामः ॥ चत्वार एवाङ्गिरसाः कौमण्डा दैर्घतमा रौक्षायणा गर्गाश्व ॥ यथा चैते त्रिपञ्चार्षेयाः तथा स्वस्थाने वक्ष्यामः । एतत्सर्वं स्वाभिप्रायेण द्रष्टव्यं सूत्रान्तरेष्वन्यथाऽपि दर्शनात् ॥ गर्गाणां त्र्यार्षेयो विकल्पः ॥ यथा चैव तथा वक्ष्यामः ॥ विश्वामित्रपक्षे पौरणा द्वयार्षेयाः । शुनकवसिष्ठा एकार्षेयाः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy