SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ૪૯ गोत्रप्रवर निर्णयः. परिभाषा प्रकरणे गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ इति बोधायनसूत्रप्राक्तानि गोत्राणि प्रयुतान्यर्बुदानि च । तेषां प्रवरा ऋषिभिर्दष्टत्वादूनपञ्चाशदेव । आपस्तम्बमते अष्टादश गणा उदिताः ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवासेष्ठान्वयाभिनव माधवाचार्योद्धृते गोत्रप्रवरनिर्णये नवमं प्रकरणम्. अथ दशमे प्रकरणे क्षत्रियविशोः प्रवरः कथ्यते - अथ राज्ञां विशां तद्वर्णानां प्रवरस्स्मृतः ॥ ७१ ॥ क्षत्रियाणां मानवैलपौरूरवसेति त्र्यार्षेयः प्रवरः । वैश्यानां भालन्दनवात्सप्रिमाङ्कीलोत ज्यार्षेयः प्रवरः । वणिजां मानवेत्येकार्षेयः प्रवरः । इमे वो बोधायनेन मुनिना प्रोक्ताः ॥ स्वस्वमन्त्रदृशस्तेषां विवाहप्रवरास्स्मृताः । न चेन्मन्त्रदृशस्तस्य प्रवरास्स्वपुरोधसः ॥ ७२ ॥ अतस्समानप्रवरदोषस्तेषां न विद्यते । क्षत्रियादिप्रवराणां परस्परं विवाहो दृष्टः तेषां स्वस्वमन्त्रदृशः स्वेषां मन्त्रद्रष्टार एतेषां प्रवराः स्मृताः । न चेन्मन्त्रद्रष्टारः पुरोहितस्य प्रवरा ज्ञेयाः । स्वस्वपुरोहितभेदादेव तेषां प्रवरभेदः । स्वस्वमन्त्रद्रष्टृणामभावे पुरोहितप्रवरो द्रष्टव्यः । म नुप्रभृतीनां साम्येsपि अवान्तरप्रवरभेदाद्विवाहः समानप्रवरदोषः । क्षत्रियादीनामप्येवम् । तत्र शिष्टाचारो व्यवस्थापकः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy