________________
३१०
भाष्ययुतं.
नमातवचसेति मतवचोवद्वन्दनवदङ्गिरो वदिति ॥ अथ कपीनां त्र्यार्षेयः आङ्गिरसामहय्योरुक्षयेति उरुक्षयवदमहय्यवदङ्गिरोदिति
॥ १३ ॥
यदस्योत्पत्तितं गोत्रं तत्र प्रथमवरणं इतरतो द्वितीयमिति द्वयामुष्यायणप्रवरे अथ द्विगोत्राणां उभयोर्गोत्रयोः अविवाहः तत्सगोत्राणां च ॥ १३ ॥
अथ गर्गाणां त्र्यार्षेय आङ्गिरसगार्ग्यशैन्येति शिनिवद्गर्गवदङ्गिरोवदिति । भरद्वाजभु हैके अङ्गिरसस्थाने भारद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरहाजवदिति
भरद्वाज हैकेऽङ्गिरसस्स्थान इच्छन्ति व्यार्षेयाः । व्यायस्यैवाधिकारः न पञ्चार्षेयादीनाम् । अतोऽन्योऽनुज्ञायते भरद्वाजादन्येऽप्यार्षेया एषां विद्यन्त इति । तेन बृहस्पतिरपि । एषामृविरिति गम्यते तेन सह पञ्चार्षेयो नाम प्रवरस्स्यात् आङ्गिरसबार्हस्पत्य भारद्वाजगार्ग्यशैन्येति । एवं बहुवानां महाप्रव राचार्याणां च वचनं त्र्यार्षेयत्वे प्रवरः पूर्वोक्तो वा स्यात् भरद्वाजादिर्वा । तत्र भरद्वाजस्य सप्तर्षिस्मरणात् तस्यापि परत्वमिति सह परेणेत्येतन्न विरुध्यते । तत्र प्रवरः भारद्वाजगार्ग्यशैन्येति शिनिवद्भगवद्भरद्वाजवदिति । तत्र ऋक्षाणां गर्गाणां भारद्वाजानां परस्परं विवाहो नास्ति । समानार्षेयाणां वहुत्वात् । त्र्यार्षेयत्वे सप्त ऋषयस्सन्तीति अविवाह एव 'ज्यायगर्गाणां भरद्वाजऋक्षाणां चाविवाहः' इति गार्गीयप्रवरे चो क्तम् । पञ्चार्षेयाणां वचनमन्तरेणापि अविवाहसिद्ध इतेि ॥ १४ ॥