________________
आप स्तम्ब प्रवरख ण्डं कपर्दिस्वामिभाष्यसमेतम्.
सत्रानन्तरं तदर्थ होतृप्रवरा अध्वर्युप्रवराश्चानुक्तत्वाद्धक्ष्यन्ते-. प्रवरान्व्याख्यास्यामः
॥१॥ प्रज्ञातबन्धूनां यैरग्निीयते ते प्रवराः । तानेतान्विस्तरेण प्रवरान् प्रपञ्चेन वक्ष्यामः आर्षेयं वृणीते
॥२॥ आर्षेयं ऋष्यपत्यसम्बन्धं प्रार्थयते संकीर्तयति । अथवा आर्षेयमृषेरपत्यमग्निं यजमानोत्पादितत्वात् यजमानस्य ऋषिसन्तानत्वात् । तं वृणीते प्रार्थयते होत्रादिरिति ॥ २॥
एवंबन्धोरेव नैत्यथो सन्तत्यै
॥३॥ पूर्वऋषिसम्बन्धात् नैव च्यवते । अथो अपि च सन्तत्यै मात्मनः पूर्वेषां च सन्तानायेति ॥३॥
न देवैर्न मनुष्यैरार्षेयं वृणीते ऋषिभिरेव वाऽऽर्षेयं वृणीत इति विज्ञायते ॥४॥
अपि च विज्ञायते । न देवैः प्रजापत्यादिभिः आर्षेयं वृणीते । न च मनुष्यैर्देवदत्तादिभिरापेयं वृणीते । ऋषिभिरेच मन्त्रद्रभिः बसिष्ठादिभिरार्षेयं वृणीते