________________
२०६ गर्गभरद्वाजकुलविवाहविचारः. यथासंभवमनुरुध्यते सार्वभौमप्रभृतिभिः । अत एव पञ्चप्रवरगर्गस्य आपस्तम्बेनानाम्नानेऽपि न क्षतिः, आपस्तम्बयिहौत्रादौ तदनुपयोगात् एवं च गर्गप्रवरो यत्र क्वापि आपस्तम्बेन पठ्यतां ; नैतावता विवाहविधिनिषेधयोर्विशेषावगमः । बोधायनप्रभृतिभिस्तु विवाहतात्पर्ये. णैव प्रवरनिरूपणं कृतम् । तत्र च गर्गाणां भरद्वाजान्तर्भावः स्पष्टमवगम्यते । तत्र च केषां चित् गर्गाणां भरद्वाजान्तर्भावः केषां चिन्नेति विशेष कल्पयितुं न वयं प्रभवामः । निबन्धकारैस्तु कैश्चित् सामान्यतो गर्गभरद्वाजविवाहनिषेधः कृतः । चतुर्विंशतिमतविवरणादौ स्पष्टमेव सर्वेषां गर्गाणां भरद्वाजगणप्रविष्टत्वं दर्शितम् । सर्वेषामेव च गर्गाणां भरद्वाजैस्सह विवाहनिषेध उक्तः । तस्माद्गर्गभरद्वाजयोर्विवाहोऽप्रामाणिक एव ॥
गर्गसामान्यसंबन्धो भारद्वाजकुलस्य नो। इति पट्टाभिरामोऽयं मन्यते धर्मशास्त्रतः ॥
इति गर्गभरद्वाजकुलविवाहविचारः समाप्तः.