________________
गर्गभरद्वाजकुलविवाहविचारः. भारद्वाजास्सकपयो गर्गा रोक्षायणा इति । चत्वारस्ते भरद्वाजा गौत्रक्यान्नान्वयुमिथः ॥
इत्यादिना गणां भरद्वाजापत्यत्वेन तहोत्रत्वादविवाह इति दिगिति प्रतिपादनाच, सगोत्रां चेदमत्योपयच्छेत् मातृवदेनां विभृयात् सगोत्रां गत्वा चान्द्रायणमुपदिशेत् व्रते परिनिष्ठिते ब्राह्मणी त्यजेन्मातृवत् भगिनीवत् गर्भो न दुष्यति काश्यप इति विज्ञायते । बुद्धिपूर्वे तु शातातपः
परिणीय सगोत्रां तु समानप्रवरां तथा । कृत्वा तस्यास्समुत्सर्ग अतिरुच्छ्रे समाचरेत् ॥ समानप्रवरां कन्यां एकगोत्रामथापि वा। विवाहयति यो मूढतस्य वक्ष्यामि निप्कृतिम् ।। उत्सृज्य तां ततो भायाँ मातृवत्परिपालयेत् । यदि कश्चित्तु तामेव कन्यामू वोपगच्छति ॥ गुरुतल्पव्रताच्छुध्येत् गर्भश्चत्सोऽन्त्यतां व्रजेत् । चण्डालेषु प्रजाः क्षिप्त्वा व्रतं तु मरणान्तिकम् ॥ कामाद्विवाहमात्रे वा प्रजाऽनुत्पादनेऽपि वा । तस्य चण्डालवासः स्यात् व्रतं प्राणान्तिकं चरेत् ॥
इत्यादिपरस्सहस्त्रप्रत्यवायस्मरणाच्च भारद्वाजानां गर्गाणां च मिथो विवाहो न साधीयानवेत्यलं स्वतोनिहतमुद्गरप्रहरणप्रयासेन । आपस्तम्बेन तावन्न विवाहतात्पर्येण प्रवरा व्याख्याताः, विवाहप्रकरणे तदनिरूपणात् । किंतु ीतकर्मतात्पर्यण, तत्प्रकरणे उक्तत्वात् । तत्र हि 'इत उनिध्वर्युदणीतेऽमुतोर्वाचो होता' इत्यारब्धम् । अत एव च प्रतिप्रवरपाठं अध्वर्युवरणहोतृवरणयोविशेषो दर्शितौ । परंतु विवाहविधिनिषेधविषयेऽपि आपस्तम्बीयप्रवरखण्डो
27