________________
१८४
प्रवरर्पणम्.
तथैव जातूकाश्च वासिष्ठैरत्रिभिस्सह ।
कपिलानां भरद्वानैश्वामित्रैश्च नान्वयः ॥ इति ।
यत्तु विश्वनाथदेवेनोक्तं-सर्वेषां भारद्वाजानां उचथ्यप्रवरवतां गौतमानां च न विवाहः विष्णुपुराणे बृहस्पतेस्सकाशात् भरद्वाजस्य ममतासंज्ञकौचथ्यक्षेत्रोत्पत्तिश्श्रूयत इति ।
ममतासंज्ञकौचथ्यक्षेत्रे वीर्याद्वृहस्पतेः । भरद्वाजः समुत्पन्न इति विष्णुपुराणके ॥ श्रवणात् क्षेत्रनत्वेन भरद्वाजस्य तद्भवैः । भरद्वाजैश्च सकलैश्शौङ्गशैशिरिभिस्तथा ॥ औचथ्यप्रवरो येषां गौतमानां भवेत्तु तैः ।
सकलैर्गौतमैर्युक्तो नोहाह इति भाति मे ॥ इति । अत्र कश्चित्समादधे
क्रियाभ्युपगमात्क्षेत्रं बीजिने यश्च [यत्प्र] दीयते । तस्येह भागिनौ दृष्टौ बीजी क्षैत्रिक एव च ॥ फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी ॥ इति मनुना संवादे एव द्वयामुष्यायणत्वोक्तेर्न परक्षेत्रोत्पत्तिमात्रेण तत्त्वं येन गोत्रद्वयवर्जतं स्यात् न वा तत्र तले प्रमाणमस्ति विष्णुपुराणे संवादानुक्तेः । प्रत्युत सूत्रेषु तद्व्यनक्ति । बोधायनस्य च पूर्वौतमैरुत्तरैश्चाविवाहोक्तिरेव मानमस्ति । किं च गौतमस्य सप्तर्षित्वेन सगोत्रत्वात्सर्वैस्तैरविवाहापत्तिः नौचथ्यैरेवेति तत्रात्यय एव बाणो भवन्तं प्रहरतीति न्यायः । संवा