________________
प्रवरदर्पणम्.
१८३
इति । एतच्च भारते रामायणे चोक्तम् । बहुचब्राह्मणेऽपि -
"
'सह देवरातो वैश्वामित्र आस । तस्यैते कापिलेया बाभ्रवाः ' इति । यद्यपि शुनःपुच्छोपि ज्येष्ठ उक्तः, तथाऽपि जमदग्नेरेव नामान्तरमिति ज्ञेयम् । शुनःपुच्छश्र श्रुत्युक्तः शुनोलाङ्गलस्य पर्यायः अतोस्य जामदग्रचैवैश्वामित्रैश्वाविवाहः । भागवते नवमस्कन्धेऽप्येवम् । अतो येन केन चिदुक्तं देवरातस्य जामदन - त्वं चिन्त्यमिति तदेतच्चिन्त्यमिति संक्षेपः । जातूकर्ण्यानां वासित्रिभिवाविवाहः । तस्यात्रिगणेष्वपाठेऽपि तत्प्रवरेष्वत्रेर्ब्रयमाणत्वात् । एषां लौगाक्षिभिः सङ्कत्याद्यैश्चाविवाहः वासिष्ठत्वात् । धानञ्जयानां वैश्वामित्रैरत्रिभिश्राविवाहः । कपिलानां वैश्वामित्रैभरद्वाजैश्वाविवाहः ||
ननु कापिलस्य वैश्वामित्रेष्वपाठात् कुतस्तान्निषेध इति चेत् ॥ अत्र ब्रूमः – कपिलो भारद्वाजमध्ये ऋक्षेषूक्तः । बहुचब्राह्मणे " तस्यैते कापिलेया बाभ्रवाः' इति वचनात्कपिलस्य विश्वामित्र-सम्बन्धोप्यवगम्यते । न ह्यसति कपिलस्य तत्सम्बन्धे कापिलयस्य स युक्तः अतः कपिलस्यापि भरद्वाजापत्यत्वात् तैर्भारद्वाजैश्च सहाविवाह इत्युक्तमिति दिक् ॥
कतानां सर्वैर्भारद्वाजैर्वैश्वामित्रैश्वाविवाहः । एते द्विगोत्राः स्मृत्यर्थसारोक्ताः । अत्रेः पुत्रिकापुत्राणां वामरथ्यादीनां वासिठैरत्रिभिश्वाविवाहः । सर्व चैतदुक्तं स्मृत्यर्थसारेऽपि -
सतीनां द्विवंश्यत्वाद्वासिष्ठैश्च चतुर्विधैः ।
सावर्गीयैः सगोत्रत्वात् प्रवरैक्याच्च नान्वयः ॥ वासिष्ठैः काश्यपैर्नित्यं लोगाक्षीणामनन्वयः । अहवसिष्ठतोक्तेस्तु वामरथ्यादयस्तथा ।