________________
प्रवरदर्पणम्
भिल्लातिः विभातकिः मनुसम्बन्धिः तैलः काद्रव्यः हारिः गलागलिः वैयाघ्रपदः शालायनः इति मात्स्योक्ताः ॥
१८१
एषामाङ्गिरसगौरवीतसाङ्कृत्येति । अन्त्ययोर्व्यत्ययो वा । एषां केवलाङ्गिरोमध्ये वासिष्ठगणमध्ये च बोधायनापस्तम्बादिभिः पाठाद्वासिष्ठस्य शक्तेः पक्षे वरणाच्च स्वगणस्थैः वसिष्ठैश्चाविवाहः इति नारायणवृत्तौ मञ्जर्यां चोक्तम् । एवं लोगाक्ष्यादिभिरहर्वसिष्ठैरप्यविवाहः, वासिष्ठत्वाविशेषात् । कात्यायनाश्वलायनादिभिः प्रसिद्धभरद्वाजकपिसन्देशमध्यपाठात्तस्य च प्रयोजनान्तराभावात्केवलाङ्गिरोमध्यपाठस्य बाधनादनुपयोगेन वैयर्थ्याद्वारद्वाजैरप्येषामविवाहः इति केचित् । अतश्चैषां शौङ्गशैशिरैरप्यविवाहः, तेषामपि भरद्वाजत्वात् । एषां काश्यपेषु पाठात्तैरप्यविवाहः इत्युक्तं प्रयोगपारिजाते । सङ्गहे
काश्यपेयगणस्यापि वासिष्ठस्य गणस्य च । सङ्कृतेः पूतिमाषस्य विवाहो न परस्परम् ॥
इति । एषां गौतमैरप्यविवाहः इति केचित् । तन्न, द्विगोत्रत्व - स्मृतिविरोधात् ॥
अथ लौगाक्षयः — लौगाक्षिः दार्भायणः मैत्रवाहः देहकालयः कापुटिः यकसयः भालङ्कायनिः परस्ताविः औदकिः कौनाभिः सौलिः सैतकिः सारम्भरिः आविष्टिः रैषिकिः सौरसुखि: सैरन्ध्रिः चोष्यनः योधकालकिः कलः वाचयः अञ्जयः इति बोधायनोक्ताः ॥
आनष्टिः फाजलिः शाकबलिः रावलिः सौकिः राजवाहिः
23a