________________
१७६
प्रवरदर्पणम्. इति बोधायनोक्ताः । काश्यपासितदैवलेति वा काश्यपदैवलासितेति वा दैवलासितेति द्वौ वेत्यापस्तम्बः ॥ ____ लोगाक्षीस्तु द्वयामुष्यायणेषु वक्ष्यामः । एषां काश्यपानां सर्वेषामविवाहः ॥
इति काश्यपाः ॥
अथ वसिष्ठाःते पञ्च । वसिष्ठाः कुण्डिनाः उपमन्यवः पराशराः जातुकण्यश्चेिति ।
तत्राद्याः-वैतालकिः हरकिः सावखाः गौरिश्रवाः आश्वलायनः कपिष्ठलः सौचिवृक्षः व्याघ्पादः काम्यकायनिः वाटक्यः गायनिः नयाप्तः जातूकर्ण्यः औडुलोमिः कौभाोजः कौलायनः सुदहरितः काण्डवृद्धिः सौपवसायनः लोमायनः स्वत्यः कारीषितः पार्णकायनः पार्णवल्कः देवनः गौरव्यः विश्वायनः वाहकथिः अविक्षितिः स्वपानिः पूतिमाषः सप्तवेलः वासिष्ठः इति बोधायनोक्ताः ॥
औपवतः औपगवः नैगलः सात्वलायनः औडुलोमिः वटीकरः गोपायनः धौवपिः नाकव्यः सत्वः वाह्यकत् कालोहविः पलाशिः काकुरिः आपः स्थूणः शितिवृक्षः ब्रह्मपुरेयः स्वस्तिकरः माण्डुलिः गौधलिः कौविधिः मालोहदिः सौमनसायनः ब्रह्मवलिः चौलिः पौरश्रवः याज्ञवल्क्यः पार्णवल्क्यः इति कात्यानोक्ताः ॥
वैष्णव्यः आध्वलः सुदारकः दासव्यः तालिसव्यः वाग्रधिः चाण्डालिः गौडलिः व्यालोहविः सुनाश्वः सुपाचिः दिदिः वोलिः पैडवः इति मात्स्योक्ताः ॥