SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६९ प्रवरदर्पणम्. विष्ठिरेति हिरण्यकेशिसूत्रे । सुमङ्गलानामत्रिसुमङ्गलश्यावाश्वेति वेति केचित् ॥ हालेयः वालेयः केरेयः वामरथ्यः पुत्रिकः कालयः सौगेयः श्यैभ्रेय इति अत्रेः पुत्रिकापुत्राः । एषामात्रेयवामरथ्यपौत्रिकेति प्रवरा इति मात्स्यकात्यायनौ ॥ ___ एषां सर्वेषामत्रीणामविवाहः सगोत्रत्वात् । 'अत्रीणां सर्वेषामविवाहः' इति बोधायनोक्तेश्च । अत्रेः पुत्रिकापुत्राणां वसिष्ठगणैरप्यविवाहः । अत्र पूर्वोक्तभृग्वादिष्वत्रिषु च यानि तुल्यानि नामानि तत्र गोत्रप्रवरभेदादृषिभेदं ज्ञात्वा विवाहः कार्यः । अन्यथा न । एवं सर्वत्र ज्ञेयम् । ॥ इत्यत्रयः ॥ अथ विश्वामित्राः ॥ ते दश-कुशिकाः रोहिताः रौक्षाः कामकायनाः अज्ञाः अघमर्षणाः पूरणाः इन्द्रकौशिकाः धनञ्ज. याः कताः इति बोधायनः । अन्येऽपि सन्ति ते वक्ष्यन्ते ___ तत्र कुशिकाः-कुशिकः पर्णजङ्घः वारक्यः औदलिः माणिः बृहदग्निः आलविः राघहिः आपघव्यः कामन्तकः बद्धकथः चिन्तितः लामकायनः शालङ्कायनः शाङ्कायनः लोकोगौरः सौगतयः यमदूतः आनभिन्नः तारकायनः वालकायनः श्वोवलः जाबालिः याज्ञवल्क्यः वितन्दुः भोवनिः सौश्रुतिः औपदहनिः उर्दरिः भाष्टकिः श्यामेयः चैत्रैयः तालवतः मयूरः सौमत्यः चित्रन्तविः श्वेत्यन्तायनः अनूतकिः मान्तवः ये चान्ये मनुशब्दान्ताः बाभ्रव्यः कालायनः उत्सरिः इति बोधायनोक्ताः ॥ 22
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy