________________
१६६
प्रवरदर्पणम्. मद्रगारिः हंसः हस्तिवासः पैङ्गलः पलाशिः दादुलः कौमारः हास्तिनः द्रलः हरितः इति मात्स्ये । एषामाङ्गिरसाम्बरीषयौवनाश्वति मान्धात्राम्बरीषयौवनाश्वति वेत्याश्वलायनः । आपस्तम्बस्तु कुत्सानामाङ्गिरसमान्धातृकौत्सेति प्रवरानाह । एषां आगिरसपौरुकुत्सत्रासदस्यवेति मात्स्ये उक्तम् ॥ ___ अथ कण्वाः-भरुण्डः खरुण्डः शाकटायनः प्रसादः सौनारिः मर्कटः रमणः सणः करघः मर्कटिः इति कात्यायनोक्ताः । कण्वः औपमर्कटायनिः भाष्कलः पौलाहलिः मौञ्जिः माञ्जिः मौजिगवः विजिगवः वाजयः वाजश्रवाः इति बोधायनोक्ताः । आर्षादिः चतुरिः आमरनाशनः गोदायनः रथिः श्यामायनिः गर्दभः प्रागावसुः नाडायनः श्यामायणः शैवेरिः नारी इति मात्स्योक्ताः । एषामाङ्गिरसाजमीढकाण्वेति आङ्गिरसधोरकाण्वेति वेत्याश्वलायनः ॥ ___ अथ रथीतराः-रथीतरः हस्ती दासकः द्वायनः नैतदाक्षिः शैलालिः भिलिः भीलीभायनः साहवः भैक्षवाहः हेमगवः वैरूपः अष्टादंष्ट्रः एषदश्वः इति । एषामाङ्गिरसवैरूपराथीतरेति । आङ्गिरसवैरूपपार्षदश्वेति वेति बोधायनः । अष्टादंष्ट्रपार्षदश्ववैरूपेति वेत्यापस्तम्बः । अन्त्ययोर्व्यत्ययो वा ॥
अथ मुद्गलाः—सात्यमुनिः हिरण्यस्तम्बिः मुद्गलः हसजिह्वः देवजिह्वः आलवालः बिडादिः आपाग्रेयः मुनिः पौराः इति मात्स्योक्ताः । सूनिः छत्रयः तारणः कार्यभासितः हिरण्याक्षः ऋषभः मिताक्षः वृप्तः ऋश्यायणः जङ्घः दीर्घनः हिरण्यगर्भः इति बोधायनोक्ताः । एषामाङ्गिरसभााश्वमौद्गल्येति । तार्यभा
श्विमौद्गल्येति वेत्याश्वलायनः । आङ्गिरसताविमौद्गल्येति वेति मात्स्ये ॥ ___ अथ विष्णुवृद्धाः-विष्णुवृद्धः शठः मर्षणः मद्रणः शाबरायणः वात्सप्रायणः सात्यकायनः नैतुन्द्यः स्तुत्यः आरुण्यः वैहोढः