________________
१६५
जलन्दुः इति हिरण्यकेशिसूत्रेऽधिकाः । कपैतरः स्वैदतरः जलसिन्धकिः ऊर्कसुः कुसीदः गादिः सौजरिः सासविसल्लिः क्षपेयः कायः धान्यायनिः सावस्यायनिः इति मात्स्योक्ताः । एषां कपीनामाङ्गिरसआमहीयवऔरुक्षयसेत्याश्वलायनः । अत्र यद्यपि कपिः केवलाङ्गिरोमध्ये पठितः । तथाऽपि आपस्तम्बेन भरद्वाजमध्ये पाठात् विष्णुपुराणसंवादाच्च भरद्वाजैरविवाह्य एवेति प्रवरमञ्जरीकारः । मात्स्येऽन्येोपि गण उक्तः । अत्वरिः भरद्वाजः आत्मभवः मन्त्रवरः एषां पञ्च आङ्गिरसबार्हस्पत्य भारद्वाजमन्त्रवरात्मभवेति । एषां सर्वेषामविवाहः, एषामविवाह इति बोधायनोक्तेः । स्मृत्यर्थसारेऽपि -
प्रवरदर्पणम.
भारद्वाजास्तकपयो गर्गा रौक्षायणा इति । चत्वारोप भरद्वाजा गोत्रैक्यान्नान्वयुर्मिथः ||
इति । एषां गौतमादिभिर्भवत्येव विवाहः ; द्वित्रिप्रवरासाम्यात् सगोत्रत्वाभावाच्च । अत्र ऋक्षाणां पृषदश्वानां च सगोत्रत्वाद्यभावाद्गौतमैः भवत्येव विवाह इति प्रवरमञ्जरीकृत् ॥
इति भरद्वाजाः.
&
अथ केवलाङ्गिरसः । ते पञ्च – हरिताः कण्वाः रथीतराः मुद्गलाः विष्णुवृद्धाश्चेति ॥ तत्राद्याः - हरितः साङ्ख्यः दर्भः सौभागः भैमगवः मत्यायुः वालोदरः महोदरः नैमिश्रीः मिश्रोदनः कातपः कारीषिः पोटल: मौत्स्यः मधूपः मान्धाता मण्डकारिः इति बोधायनोक्ताः । कुत्सः पिङ्गः शङ्खदर्भः इत्याश्वलायनः । खाण्डायनः उमाण्डिः मौलिः गवेरणिः मात्स्यभालिः गणगारिः
21a