________________
१६२
प्रवरर्दपणभ. __ कारेणपालिः वास्तव्यः श्वेतीयः पौजिष्टः औदाजायनः माधुक्षरः अजगन्धिः । तेषां त्रयः आङ्गिरसगौतमकारेणुपालेति बोधायनः ॥
राहुगणानामाङ्गिरसराहुगणगौतमेति त्रयः । बृहदुक्थानामाङ्गिरसबाहदुक्थगौतमेति त्रयः । एवमेते चत्वार आश्वलायनोक्ताः ।
आपस्तम्बेनैते वामदेवास्तेषामाङ्गिरसवामदेवबाहदुक्थेति त्रय इत्युक्तम् । हिरण्यकेशिसूत्रेऽप्येवम् । राघुवानां आङ्गिरसराघुवगौतमेति त्रय इति केचित् । अत्र मूलं मृग्यम् । एषां सर्वेषां अविवाहः सगोत्रत्वात् ‘गौतमानां सर्वेषामविवाहः' इति बोधायनाक्तेश्च । यद्यप्याश्वलायनेन एषदश्वा ऋक्षाश्च गौतमेषु पठिताः तथाऽपि पृषदश्वानां केवलागिरोमध्ये आपस्तम्बादिभिः रथीतरेषु पाठात् ऋक्षाणां भरद्वाजेषु पाठात्तैरेव सहाविवाहः । गौतमैस्तु भवत्येव विवाह इति नारायणवृत्तौ प्रवरमञ्जर्यां चोक्तम् ॥
इति गौतमाङ्गिरसाः.
अथ भरद्वाजाः । ते चत्वारः । भरद्वाजाः गर्गाः रौक्षायणाः कपयः इति । तत्राद्याः-भरद्वाजः काम्यायणः मङ्गडः देवाश्वः उद्दहव्यः प्राग्वंशी वाहलभ्यः वाह्यः गोवासीनः स्तैदेहः आश्लः आक्षाभूरिः परिणद्वेयः केशरवयः शौद्धिः उरूढः खारिग्रीविः औपसिविः वयोक्षिभेदः आग्नवेश्यः शठः गौरिवायनः चेलकः स्तनकर्णः ऋक्षः माणभिद्यः कादोवमेकः स्वोज्वलिः वेलः खा. रुडः देविः भरुडेयः भद्राधिः सौरभः शृङ्गः देवमतिः इषमतः औदमेधिः प्रवाहणेयः कल्माषः राजस्ताम्भः सघोषकृतिः पहारिः करभीकिः रुद्राङ्गपथः शालाहारिः वेदवेलः महावेलः नृत्यायनः धान्यायनः शालानिः शार्दूलिः कक्षलः बाष्कळ: 'सैहिकेयः कौ