________________
१५८
प्रवरदर्पण. दार्टिषेणानां परस्परमविवाहः, द्वित्रिप्रवरसाम्यात् । यद्यपि त्रिप्रवराष्टिषेणानां न तथा । तथाऽपि 'वत्सा विदा आष्टिषेणा इत्येतेषामविवाहः एते पञ्चावत्तिनः' इति मञ्जर्यां बोधायनोक्रवि. वाहः ।
'भृगूणां न विवाहोस्ति चतुर्णामादितो मिथः' इत्याश्वलायनोक्तेश्च । चतुष्टं च तेन केवलजामदग्नयस्य भिन्नत्वोक्तेः । यद्यप्यार्टिषेणा न जामदग्रयाः तत्पुरस्कारेणेव पञ्चावत्तमुक्तं 'त्रिमिदग्नचानाम्' इति । तथाऽपि ‘पञ्चावत्तिनः' इति बोधायनवचनादेव एषां पञ्चावत्तं ज्ञेयम् । स्मृत्यर्थसारेऽपि
जामदग्नया विदा वत्सा आर्टिषेणास्तथैव च ।
पञ्चावत्तिन एवैते अन्ये चतुरवत्तिनः ॥ इति । केचित्-वत्सपुरोधसयोः पञ्च भार्गवच्यावनाप्नुवानवात्सपौ. रोधसेति भार्गववात्सपौरोधसेति वा । अत्र जामदग्नया एते इति कात्यायनः । आनुवानानां भार्गवच्यावनाप्नुवानेति । बैजवनिमथितयोः पञ्च भार्गवच्यावनाप्नुवानबैजवनैमथितेति । शाठरमाठराणां भार्गवशाठरमाठरेति । कात्यायनेन त्वेते जामदग्नयेषूक्ताः अनयोः प्रवरमञ्जरीकारेण अलेखनाम्मूलं मृग्यम् ॥
अथ यस्काः—यस्कः मौनः मूकः वाधुलः वर्षपुप्यः भागलेयः राजितापिः रोददिनः भागविज्ञेयः दुर्दिनः भास्करः देवन्तायन: जैवतायनः वार्करेलयः मध्यमेयः वासिः कौशाम्बेयः कौटिल्यः सात्यकिः चित्रसेनः भागन्तिः वाकाश्वकिः औक्थः उगवित्रिः भागुरिः नूपः इति बोधायनोक्ताः । वीतहव्यः चण्डमोदनः जैवत्यायनः मौसलिपिलिः खलिः भागलिः भागवित्तिः कश्यपिः वालेयः समदोगेयिः सौरिः ज्वरिः भाङ्गतिः सानुष्टिः मादायनः शाल डायनः तार्कः प्रवारेयः शार्कराक्षिः कौटिल्यः विलेभिः