________________
प्रवर दर्पणम.
१५७
तु कात्यायनोक्तवात्सा एव तैरुक्ताः । केवलजामदग्रयगोत्रस्य तु ' भार्गवच्या वनावानेति त्रयः' इत्याश्वलायनः । ' सावर्णिजीवन्तिजामाल्यैतिंशायनवैरोहित्यावटमण्डप्राचीनयोग्यानां भृगुवदित्येकप्रवरः' इत्यापस्तम्वः । ' रेतवाहवाहादीनामेषां भार्गवौर्वजामदग्रचेति वा' इति हिरण्यकेशिसूत्रे ॥
अथ जामदग्रचाः विदाः – बौधायनः विदः शैलः अवटः प्राचीनयोग्यः अभयदाता काण्डरथिः वैनभृतः पुलस्तिः आर्कायणः ताष्ट्रायणः क्रौयनः कामलः इति बोधायनोक्ताः । पौलस्त्यः वेदभृत् अभयजातः कौङ्कायनः भ्राजः श्रदत्यः ष्टैकायनः भञ्जायनः इति कात्यायनोक्ताः । जमदग्निः कटायनिः आर्षेयः मरुतः इति मात्स्योक्ताः बिदाः । तेषां पञ्च भार्गवच्यावनानुवानैौर्वबैदेति । अत्र जामदयविदानां भार्गवौर्वजामदग्नचेति त्रयो वा इति कापञ्च वा कात्यायनेन वत्सानां त्रयः भार्गवच्यावनाप्नुवानेत्युक्तम् । विदानामप्येते इति मात्स्ये । भृग्वन्दीपमार्ग - पथयोः पूर्वोक्ताः पञ्चैवेति कात्यायनः । मात्स्ये त्वेतौ आर्टिषेणेषूक्तौ । एते जामदमचा एव । पञ्चप्रवरे यद्यपि जामदग्न नास्ति, तथाऽप्यौर्वस्य जामदग्नयेप्वेव । वत्सविदौ सगोत्रौ जमदः सप्तर्षिमध्ये पाठात् ॥
त्यायनः,
अथ केवलभृगवः—– आष्र्ष्टिषेणः नैरथिः ग्राम्यायणः कात्यायनः त्वान्द्रायणः पौठिकलायनः सिद्धः समुनायनः गौराम्भिः राम्भिः इति बोधायनोक्ताः । नेकपिः आपस्तम्बिः भाछविः कार्दमायनिः गादर्भिः अनुपः इति कात्यायनोक्ताः । मात्स्ये त्वन्येऽपि । भृग्वन्दीपः मार्गपथः चटायनिः कविः आश्वायतिः इति । एते आष्टिषेणाः एषां पञ्च प्रवराः भार्गवच्यावनानुवानाष्टिषेणानूपेति । भार्गवाष्र्ष्टिषेणानूपेति त्रयो वेत्यापस्तम्बः । एषां वत्सवि -