SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १५४ प्रवरदर्पणम्, गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मवित् । इति ब्राह्मादिषु भर्तृगोत्रं गान्धर्वादिषु च पितृगोत्रमुक्तम् । यदपि एकस्मिन्प्रवरे तुल्ये मातृगोत्रे वरस्य च । तमुद्दाहं न कुर्वीत सा कन्या भगिनी भवेत् ॥ .. इति मञ्जर्यां वचने मातृकुलप्रवरचिन्तनमुक्तं, तदपि पुत्रिकाविषयमेव, अन्यथा प्रवरं पितृगोत्रेषु मातृगोत्रे न चिन्तयेत् । गोत्रमेव त्यजेन्मातुरिति कात्यायनोब्रवीत् ॥ इति मञ्जर्या वचनविरोधस्स्यात् । तत्रैव काठकगृह्येऽपि 'प्रव रान्पितृगोत्रेषु चिन्तयेत्' इति । येषामियं मातृगोत्रा प्राप्ता तेषामपि कलौ तन्निषेध एव ॥ गोत्रान्मातुस्सपिण्डाञ्च विवाहो गोवधस्तथा । इति हेमाद्रिमाधवीयादित्यपुराणे कलिवर्येषूक्तेः ॥ अथ गोत्राणि प्रवराश्चोच्यन्ते । तत्र यद्यपि गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । उनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ इति बोधायनेन प्रवरगणे संख्योक्ता । अत्र सहस्राणीत्यादो बहुत्वश्रवणात्तित्रः कोट्यो भवन्तीति मञ्जमुक्तम् । तथाऽपि प्रबरे कात्यायनापस्तम्बादिसूत्रमात्स्याद्यालोचनेन न्यूनाधिकभावात् गोत्राणां प्रवराणां च गणसंज्ञास्वरूपसंख्याक्रमप्रवरविकल्पादिभिर्विसंवादाच्च सर्वसूत्रपुराणोपसंहारेण निर्णय उच्यते--
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy