________________
१५३
प्रवरदर्पणम. जेषु तु एकप्रवरसाम्ये सर्वेषामप्यसाम्ये वा सगोत्रत्वादेव न विवाहः, सत्तया गोत्रानुवृत्तेरुक्तत्वात् । भृग्वादिषु पाठः 'भृगूणां त्वेति भृग्वङ्गिरसामादध्यात्' इत्याधानविधानार्थ एव । एतेन भृग्वङ्गिरोभिन्नेषु एकप्रवरे साम्ये सप्रवरत्वं सिद्धम् । एवं मातृगोत्राऽपि वा ।
मातुलस्य सुतामू वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ।। इति शातातपोक्तेः । इत्थं केचिदेव ।
सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनानोरविज्ञानेऽप्युद्वहेदविशङ्कितः ॥
इति मदनपारिजाते व्यासस्मृतेः, 'मातृगोत्रं माध्यन्दिनीयानाम् । इति सत्याषाढोक्तेश्चेति कश्चित् । वस्तुतस्तु-~-इदं वचनं सत्यापाटसूत्रेऽदर्शनात्प्रवरमञ्जरीकारेणालेखनाञ्च निर्मूलमेव । प्रत्युत मातृगोत्रनिषेधस्य पाक्षिकत्वेऽपि चण्डालत्वादिदोषस्य अतिगुरुत्वात्पाक्षिकदोषस्यापि परिहार्यत्वात्सर्वेषां मातृगोत्रवर्जनमिति प्रवरमञ्जर्यामुक्तम् । पुत्रिकापुत्रैरासुरादिविवाहजैश्च सर्वैर्मातृगोत्रा वा, दानस्यानिष्पत्तेः । अत एव तत्र
पितृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । इति श्राद्धे पितृगोत्रं दृश्यते । शिष्टास्त्विदं मातृगोत्रवर्जनं गान्धर्वादिविवाहोढमातृपरं, तत्र पितृगोत्रानिवृत्तेः । ब्राह्मादिविवाहचतुष्टये मातामहगोत्रनिवृत्तेर्भवत्येव विवाहः । अत एव मार्कण्डेयपुराणे
20