________________
प्रवरमञ्जरी.
अथ
लौगाक्षिकात्यायनोक्तप्रवराव्यायसमाप्तिसूत्र काण्डमुदाहारव्यामः -- आहतुः कात्यायनलौगाक्षी
व्याख्याताः प्रवराः उत्पत्तीः प्रतिपत्तीश्व व्याख्यास्यानोयो त्रिविधा ब्राह्मणानां समुत्पत्तयो भवन्ति । उत्पत्तिकुलीनाः संहतकुलीनाः यामुष्यायणकुलीनाश्च । येषां पुरुषतः प्रजोत्पत्तिरविच्छिश्रा भवति ते उत्पत्तिकुलीनाः । ये सप्त भूयः [ पुरुषं ] पञ्चपुरुष वा योनिश्रुतशीलवृचसंपन्नाश्रुतवन्तः पितृमालुसन्तत्या कृषय आर्षेयास्ते संहतकुलीनाः आपीजीना भवन्ति । अथ वृतककोतककृत्रिमपुत्रिकापुत्राः परपरिग्रहेणानार्षेया जाताः ते दद्यामुव्यायणा भवन्ति । यथैतच्छौङ्गशैशिरीणां भरद्वाजौदमेघानां लोगाक्षीणां यानि च अन्यान्येवं समुत्पतीन भवन्ति । तथैव प्रवरास्स्युः । द्विप्रवरसन्निपाते पूर्वः प्रवर उत्पादयितुरुत्तरः परिग्रहीतुः । अपि वा त्रयोन्ये त्रयोन्ये तत्र तथा कुर्यात् न पञ्चातिप्रवृणीत इति ह्याह जीनेव पञ्च वा प्रवृणीयात् । अथ यदि पितृव्येण ज्ञातिनैकार्षेयेण जातास्ते संहतकुलीनाः परिग्रहीतुरेव भवन्ति । अथ यदि तेषां स्वासु भार्यास्वपत्यं स्यात् [ न स्यात् ] रिक्थं हरेयुः
श्रुतिमन्तः पितृमन्तः पेटमत्यः.
१४६