________________
१३२
प्रवरमञ्जरी. - इदं स्मृत्यन्तरवचनं स्मृतिभाष्यकारैरुदाहृतं व्याख्यातं च । पुत्रिकापुत्रविषयमिदं वचनमित्येके व्याचक्षते । तस्य द्विगोत्रत्वादुभयत्रापि विवाहासंभवादिति । तदपेशलं व्याख्यानम् । यतस्तस्य पुत्रिकापुत्रस्योभयमपि पितृगोत्रमेवेति वचनानर्थक्यं स्यात् । 'असगोत्रा च या पितुः' इत्यनेनैव अविवाहसिद्धेः । ननु च मातृगोत्रविवाहप्रतिषेधेनैव मातुलसुताविवाहप्रतिषेधसिद्धेर्वचनानर्थक्यमत्रापि स्यात् । उच्यते—मातुलग्रहणं मातृगोत्रदोषादपि दोषगौरवख्यापनार्थं सन्निकृष्टतरत्वादित्यदोषः । अपि च-'अगस्त्याष्टमसप्तऋषीणामपत्यं गोत्रम्' इत्युत्तरत्र वक्ष्यते । तच्चापत्यं मातापित्रोईयोरप्यविशिष्टं, जन्यजनकसंबन्धस्योभयोरविशेषात् । अतो मातृगोत्रमपि स्वगोत्रमेवेत्युभयत्राप्यविवाह एव युक्तः । ननु चोभयगोत्रत्वे सति पुत्रस्य ड्यामुष्यायणानामिवोभयत्र प्रवराः प्रसज्यन्ते, विवाहप्रतिषेधवत् । अत्र ब्रूमः-अत्र हि सर्वे प्रवराचार्यास्सर्वगोत्राणां मध्ये शुङ्गशैशिरिप्रभृतीन्येव कानि चिगोत्राणि द्व्यामुष्यायणान्युदाहृत्य तेषामेव द्वयोर्गोत्रयोः प्रवरानाहुः नान्येषाम् । पितृगोत्रप्रवरानेवान्येषामाहुः । अतस्सत्यपि मातृगोत्राभिप्रायेण द्विगोत्रत्वे प्रवराः पितृगोत्रविषया एवेत्यवगच्छामः । यद्यपि मनुस्मृतेस्स्मृत्यन्तरस्य च तुल्यबलत्वात्सन्दिग्धो मातृगोत्रविवाहः । तथाऽपि न कर्तव्यः, दोषप्रायश्चित्तयोर्गुरुत्वात् । पाक्षिकोपि दोषः परिहर्तव्य इति न्यायविदः ॥ तदाहुःसन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं नरैः । इति । ..
ननु शिष्टाः केचिदाचरन्ति । सत्यमाचरन्ति । मातुलसुताविवाहमप्याचरन्ति, केचिच्छिष्टास्स्मृतिद्वयं पठन्तो व्याचक्षाणाश्च । किंच-सर्वज्ञस्य मनोर्वाक्यं मातृगोत्रविवाहसूचकं पठतामस्माकं