SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ " मगोत्रविवाहप्रतिषेधकाण्डम्. एतावता प्रदर्शितेन सर्वकर्मानुष्ठानात्प्रत्यवायपरिहारफलावाप्तिश्चेत्यादिकं गोत्रप्रवरतत्त्वज्ञानायत्तं सिध्यतीत्याचार्याणामभिप्रायः । अत्राहुः गोत्रप्रवरविज्ञानं स्वधर्मफललिप्सुभिः । आपाद्यमाहुर्धर्मज्ञाः प्रत्यवायजिघांसुभिः ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्या गोत्रप्रवर तत्त्वज्ञानमाहात्म्यप्रतिपादनपरं सूत्रकाण्डं समाप्तम् ॥ गोत्रप्रवरविज्ञानं प्रोक्तं सर्वफलप्रदम् । किं तन्मातुः पितुर्वेति द्वयोरित्यत्र संशयः ॥ संशयेऽस्मिन्मनुः प्राह सर्वज्ञश्श्रुतितुल्यवाक् । तद्धि भेषजमित्याहुश्श्रुतयोपि मनोर्वचः ॥ आह मनुः..... --असपिण्डा च या मातुरसगोत्रा च या पितुः । सा द्विजानां प्रशस्ता स्त्री दारकर्मणि मैथुने ।। अत्र हि मातृपक्षे सपिण्डमात्रैः विवाहप्रतिषेधात् मातृगोत्रे विवाहाभ्यनुज्ञाऽवगम्यते । यदि च मातृगोत्रे विवाहाभ्यनुज्ञा न स्यापितृगोत्रवत् 'असगोत्रा च या मातुरसगोत्रा च या पितुः' इत्यवक्ष्यत् । न चैवं वदति । तस्मादस्ति मातृगोत्रे विवाह इत्येकः पक्षः ॥ पक्षान्तरमाहुः परे स्मृतिकाराः मातुलस्य सुतामू वा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत ॥ 1 यद्गीतप्रवरज्ञानम् .
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy