________________
. अगस्तिकाण्डम्. अथाश्वलायनोक्तमगस्तिगोत्रप्रवरकाण्डमुदाहरिष्यामः
अगस्तीनामागस्त्यदाढच्युतैष्मवाहेति । सोमवाहो वोत्तमः । आगस्त्यदाढच्युतसोमवाहेति ॥ इत्याश्वलायनोक्तमगस्तिगोत्रप्रवरकाण्डमुदाहृतम्.
-
अथ मत्स्यपुराणोक्तमगस्तिगोत्रप्रवरकाण्डमुदाहरिष्यामः
मत्स्य उवाचअतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान् द्विजान् । अगस्तयः करम्भयः कौशाल्याः करटास्तथा । सुमेधसो मयोभुवस्तथा गान्धारकायणाः । पौलस्त्याः पौलहाश्चैव ऋतुवंशभवास्तथा ॥ व्यायोभिमतश्चैषां सर्वेषां प्रवरश्शुभः । अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः । पौर्णमासाः पौरणाश्च व्यारेयाः परिकीर्तिताः॥ अगस्त्यः पौर्णमासश्च पौरणश्च महातपाः। परस्परमवैवाद्यः पौर्णमासास्तु पौरणैः ।। एवमुक्त ऋषीणां तु वंश उत्तमपूरुषः।
-
1 करयस्तथाः