________________
११६
प्रवरमञ्जरी.
1
क्षेत्रापणग्रहासक्तमन्यत्र गतमानसम् ॥ वृकोवोरणमासाद्य मृत्युरादाय गच्छति । नैकान्तेन प्रियः कश्विद्वेष्यश्वास्य न विद्यते ॥ आयुष्ये कर्मणि क्षीणे प्रसह्य हरते कुलम् । प्राणो वायुश्चलत्वं च वायोर्विदितमेव ते ।। यदत्र जीव्यते ब्रह्मन् क्षणमात्रं तदद्भुतम् । शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ॥ अशाश्वतं धर्मकार्ये ऋणवानस्मि सङ्कटे | सोहं सम्भृतसम्भारो भवन्मूलमुपागतः ॥ न चेद्याजयसे मां त्वमन्यं यास्यामि याजकम् । एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः || शशाप तं निमिं क्रोधात् विदेहस्त्वं भविष्यसि 1 श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् || धर्मज्ञस्तु नरेन्द्र त्वं याजकं कर्तुमिच्छसि । निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥ विघ्नं करोषि नान्येन यजनं च तथेच्छसि । शापं ददासि यस्मात्त्वं विदेहोद्य भविष्यसि ॥ एवमुक्ते तु तौ जातौ विदेह द्विजपार्थिव । देहहीनौ तयोर्जीवौ ब्रह्माणमुपजग्मतुः ॥ तावागतौ समीक्ष्याथ ब्रह्मा वचनमब्रवीत्