________________
वसिष्ठकाण्डम्..
पापं समग्रं पुरुषो जहाति ॥
इति मत्स्यपुराणे प्रवरानुकीर्तने वसिष्ठगोत्रप्रवराध्यायः.
११:५
मत्स्य उवाच
वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः । बभूव पार्थिवश्रेष्ठ यज्ञस्तस्य समन्ततः ॥ शान्तात्मा पार्थिवश्रेष्ठ विशश्राम हृदा गुरुः । तं गत्वा पार्थिवश्रेष्ठ निमिर्वचनमब्रवीत् ॥ भगवन्यष्टुमिच्छामि तन्मां याजय मा चिरम् । तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ॥ कंचित्कालं प्रतीक्षस्व तव यज्ञैर्भृशं नृप । श्रान्तोस्मि राजन् विश्रम्य याजयिष्यामि ते नृप एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तमः । पारलौकिककार्ये तु कः प्रतीक्षितुमुत्सहेत् ॥ न च मे सौहृदं ब्रह्मन्कृतान्तेन बलीयसा । धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम् ॥ धर्मपथ्याशनो जन्तुर्मृतोपि सुखमश्रुते । श्वः कार्यमद्य कुरुते पूर्वाह्णे चापराह्निकम् ॥ न हि प्रतीक्षते मृत्युः कृतं वाऽपि न वाऽकृतम् ।
* विशश्राम तदा पुरा ।