________________
अत्रिकाण्डम्. . __ अथेमानि काण्डानि व्याख्यास्यामः-यदुक्तमधस्तात् भृगुगोत्रकाण्डव्याख्यानारम्भे 'इहोदाहृतानाम्' इत्यारभ्य 'व्याख्यास्यामः' इत्येवमन्तेन भाष्येण तत्सर्वमिहापि स्मर्तव्यम्, प्रयोजनगौरवादि ति । अत्रोदाहृतानां मध्ये हरितकुत्सकण्वरथीतरमुद्गलविष्णुवृद्धव्यतिरिक्तानां चामुष्यायणकण्वादीनां 'भरद्वाजगणेन्तर्भावात् भरद्वाजैस्सह अविवाह उक्तः । बृहदुक्था रथीतरा एवेत्येके मन्यन्ते । अपरे–बृहदुक्थानां रथीतराणां च भेदेन गणमुपदिश्य मत्स्यपुराणे एकप्रवरोपदेशात् रथीतरेभ्योन्ये एषदश्वा इति मन्यन्ते । तस्मिन्नपि पक्षे रथीतराणां एषदश्वानां परस्परमविवाहः, त्र्याईयाणां घ्यायसन्निपातात् । संकृतीनां तु यामुष्यायणत्वाहसिष्ठगणोक्तैः स्वगणोक्तैश्चाविवाह उक्तः ॥
अथेदानी हरितानां विवाहं वक्ष्यामः-हरितानां कुत्सानां च परस्परमविवाहः; न्यायाणां द्यायसन्निपातात्, आपस्तम्बपाठे आश्वलायनपाठे च हरितकुत्सपिङ्गशङ्केत्यादिना समानप्रवरोपदेशात् । इतरेषां कण्वरथीतरमुद्गलविष्णुवृद्धानां परस्परं च पूर्वोक्तैः वक्ष्यमाणैश्चात्र्याभिस्सह विवाहोस्ति, सगोत्रसमानप्रवरत्वयोरभावात् । इति व्याख्यातं केवलाङ्गिरसां प्रवरकाण्डम् ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमअर्या
केवलाङ्गिरसां प्रवरकाण्डानि समाप्तानि.
अथात्रीणां गोत्रप्रवरकाण्डान्युदाहरिष्यामःबोधायनादि मुनिबृन्दपदारविन्दप्रादुर्भवत्प्रवरगोत्रविवाहभेदम् ।
1शृं-द्वयामुष्यायण जल्णानाम. ही तादीनां.
उक्तः । रथीतरा एवंचेत्येके. *प्रादुर्भवात.