________________
नमः श्रीसर्वज्ञवीतरागाय । શાસ્ત્ર-સ્વાધ્યાયનું પ્રારંભિક મંગલાચરણ
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलङ्का । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् । अज्ञानतिमिरान्धानां ज्ञानाजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥
नमः समयसाराय स्वानुभूत्या चकासते । चित्स्वभावाय भावाय सर्वभावान्तरच्छिदे ॥
विविक्तमव्ययं सिद्धं . स्व-स्वभावोपलब्धये । स्व-स्वभाव-मयं बुद्धं ध्रुवं स्तौमि विकल्मषम् ॥
मंगलं भगवान् वीरो मंगलं गौतमो गणी। मंगलं कुन्दकुन्दार्यो जैनधर्मोऽस्तु मंगलम् ॥ सर्वमङ्गलमांगल्यं
सर्वकल्याणकारकं । प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ॥