________________
५४.
ઈબ્દોપદેશ परीषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा ॥२४।। कटस्य कर्ताहमिति सम्बन्धः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदात्मैव सम्बन्धः कीदृशस्तदा ॥२५।। बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् । तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् ॥२६।। एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ॥२७॥ दुःखसन्दोहभागित्वं संयोगादिह देहिनाम् । त्यजाम्येनं ततः सर्वं मनोवाक्कायकर्मभिः ॥२८।। न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ॥२९।। भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपिपुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ॥३०॥ कर्म कर्महिताबन्धि जीवोजीवहितस्पृहः । स्व-स्वप्रभावभूयस्त्वे स्वार्थं को वा न वाञ्छति ॥३१।। परोपकृतिमुत्सृज्य स्वोपकारपरो . भव । उपकुर्वन्परस्याज्ञो दृश्यमानस्य लोकवत् ॥३२।। गुरूपदेशादभ्यासात्संवित्तेः स्वपरान्तरम् । जानाति यः स जानाति मोक्षसौख्यं निरन्तरम् ।।३३।। स्वस्मिन्सदभिलाषित्वादभीष्टज्ञापकत्वतः स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥३४।। नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति । निमित्तमात्रमन्यस्तु गतेधर्मास्तिकायवत् ॥३५।।