________________
૫૫
ઈબ્દોપદેશ अभवच्चित्तविक्षेप एकान्ते तत्त्वसंस्थितः । अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः ॥३६।। यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचन्ते विषयाः सुलभा अपि ॥३७।। यथा यथा न रोचन्ते विषयाः सुलभा अपि । तथा तथा समायाति संवितौ तत्त्वमुत्तमम् ॥३८|| निशामयति निःशेषमिन्द्रजालोपमं जगत् । स्पृहयत्यात्मलाभाय गत्वान्यत्रानुतप्यते ||३९।। इच्छत्येकान्तसंवासं निर्जनं जनितादरः । निजकार्यवशात्किंचिदुक्त्वा विस्मरति द्रुतं ||४०|| बुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति । स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति ॥४१।। किमिदं कीदृशं कस्य कस्मात्क्वेत्यविशेषयन् । स्वदेहमपि नावैति योगी योगपरायणः ॥४२।। यो यत्र निवसन्नास्ते स तत्र कुरुते रतिं । यो यत्र रमते तस्मादन्यत्र स न गच्छति ||४३।। अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते । अज्ञाततद्विशेषस्तु बध्यते न विमुच्यते ॥४४।। परः परस्ततो दुःखमात्मैवात्मा ततः सुखम् । अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः ॥४५।। अविद्वान्पुद्गलद्रव्यं योऽभिनन्दति तस्य तत् । न जातु जन्तोः सामीप्यं चतुर्गतिषु मुञ्चति ॥४६।। आत्मानुष्ठाननिष्ठस्य व्यवहारबहिः स्थितेः । जायते परमानन्दः कश्चिद्योगेन योगिनः ॥४७॥