________________
||१४||
ઈબ્દોપદેશ
પ૩ विपद्रवपदावर्ते
पदिकेवातिबाह्यते । यावत्तावद्भवन्त्यन्याः प्रचुरा विपदः पुरः ॥१२।। दुर]नासुरक्ष्येण नश्वरेण धनादिना । स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ||१३।। विपत्तिमात्मनो मूढः परेषामिव नेक्षते । दह्यमानमृगाकीर्णवनान्तरतरुस्थवत् आयुर्वृद्धिक्षयोत्कर्षहेतुं कालस्य निर्गमम् । वाञ्छतां धनिनामिष्टं जीवितात्सुतरां धनम् ॥१५॥ त्यागाय श्रेयसे वित्तमवित्तः संचिनोति यः । स्वशरीरं स पङ्केन स्नास्यामीति विलिम्पति ॥१६।। आरम्भे तापकान्प्राप्तावतृप्तिप्रतिपादकान् । अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः ||१७|| भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि |स कायः संततापायस्तदर्थं प्रार्थना वृथा ॥१८।। यज्जीवस्योपकाराय तद्देहस्यापकारकम् । यद्देहस्योपकाराय तज्जीवस्यापकारकम् ॥१९।। इतश्चिन्तामणिर्दिव्य इतः पिण्याकखण्डकम् । ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिनः ॥२०॥ स्वसंवेदनसुव्यक्तस्तनुमात्रो निरत्ययः । अत्यन्तसौख्यवानात्मा लोकालोकविलोकनः ॥२१।। संयम्य करणग्राममेकाग्रत्वेन चेतसः । आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ||२२|| अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानिसमाश्रयः । ददाति यत्तु यस्यास्ति सुप्रसिद्धमिदं वचः ||२३||